अक्षर आकार:

ब्राह्मी विद्या २

brAhmI vidyA 2

ब्राह्मी विद्या २

अथोच्यते ब्रह्मविद्या सद्यः प्रत्ययकारिणीम् । शिवः श्रीभूतिराजो यामस्मभ्यं प्रत्यपादयत् ॥ १॥ सर्वेषामेव भूतानां मरणे समुपस्थिते । यया पठितयोत्क्रम्य जीवो याति निरञ्जनम् ॥ २॥ या ज्ञानिनोऽपि सम्पूर्णकृत्यस्यापि श्रुता सती । प्राणादिच्छेदजां देहव्यथां सद्यो व्यपोहति ॥ ३॥ यामाकर्ण्य महामोहविवशोऽपि क्रमागताम् । प्रबोधं वक्तृसाम्मुख्यमभ्येति रभसात्स्वयम् ॥ ४॥ तारं मायां निष्कलं च तनुत्रं च नवात्मकः । एषा पञ्चाक्षरी ब्रह्मविद्या भवति निष्कला ॥ ५॥ प्रतिवाक्यं यथाद्यन्तयोजिता सकला भवेत् । सा पञ्चदशभिर्वाक्यैरस्याः षोडशधान्तरे ॥ ६॥ अत्र तारं ``ओं'' माया ``ह्रीं'' निष्कला ``ह्रूं'। तनुत्रबीजान्तरे यथा ``ह्रैं'' इति कथयन्ति ``ह्रूं'' च ॥ ७॥ ओं ह्रीं ह्रूं ह्रैं हसरक्षमलवयऊँ ॥ ९ँ ॥ परमपदात्त्वमागतः सनातनस्त्वं जहीहि देहान्तरम् । पादाङ्गुष्टादि विभो निबन्धनं बन्धनं जहीत्युग्रम् ॥ ॐ ह्रीं ह्रूं हसरक्षमलवयऊँ९ँ ॥ १॥ ॐ ह्रीं ह्रूं ह्रैं ऊँ हसरक्षमलवयऊँ ९ँ गुल्फान्तं जानुगतं जत्रुस्थं बन्धनं तथा मेढम् । जहीहि पुरमग्र्यं हृत्पद्मात्त्वं समुत्तिष्ठ । ४ँ । ९ँ ॥ २॥ ४ँ । ९ँ । हंस हयग्रीव विभो सनातनस्त्वं परोऽसि जीवाख्यः ।रविसोमवद्विसङ्घट्टं बिन्दुं देव हहह समुत्क्राम । ४ ँ । ९ ँ ॥ ३॥ ४ ँ ।९ ँ । हंसमहामन्त्रमयः सनातनस्त्वं शुभाशुभापेक्षी मण्डलमध्य- निविष्टः शक्तिमहसेतुकारणमहार्थः । ४ ँ ९ ँ ॥ ४॥ ४ ँ ९ ँ कामलोभोभयनिविष्टः प्रबोधमायाहि हे देव । अज्ञानात्त्वं बद्धः प्रबोधितं उत्तिष्ठ देहाद्देव । ४ ँ ९ ँ ॥ ५॥ ४ ँ ९ ँ गजतालु- माह्वयन्तमौदुम्बरघट्टितं महाद्वारं प्राप्य प्रयाहि हंहो हंहो वामदेवपदम् । ४ ँ ९ ँ ॥ ६॥ ४ ँ ९ ँ ग्रन्थीश्वर परमात्मन्शान्त महातालुरन्ध्रमासाद्य उत्क्राम हे देवेश्वर निरञ्जनं शिवपदं प्रयाह्याशु ४ ँ ९ ँ ॥ ७॥ ४ ँ ९ ँ आक्रम्य मध्यमार्गे प्राणापानौ समाहृत्य । धर्माधर्मौ त्यक्त्वा नारायण याहि शान्त्यन्तम् । ४ ँ ९ ँ ॥ ८॥ ४ ँ ९ ँ । हे ब्रह्मन् हे विष्णो हे रुद्र शिवोऽसि वासुदेवस्त्वम् । अग्निष्टोम सनातन त्रिपिण्डकं जहि महाकोशम् । ४ ँ ९ ँ ॥ ९॥ ४ ँ ९ ँ । अङ्गुष्ठमात्रममलं सावरणं जहिहि महासूक्ष्मम् । गुणातीतं निरावरणं स्वस्वरूपं प्रत्यभिज्ञां नय । ४ ँ ९ ँ ॥ १०॥ ४ ँ ९ ँ । पुरुषस्त्वं प्रकृतिमयैर्बद्धो- ऽहङ्कारतन्तुना बन्धैः । अभवाभव नित्योदित परमपुरुष त्यज स्वरागमध्वानम् । ४ ँ । ९ ँ ॥ ११॥। ४ ँ । ९ ँ । मन्त्रशरीरमविलम्बमाशु त्वमेहि देहान्तम् । तदिदं भ्रममात्र- सिद्धं देहपञ्जरे नितान्ततः सङ्घम् । ४ ँ । ९ ँ ॥ १२॥ ४ ँ । ९ ँ । नन्विदं गुणभूतमयं त्यजस्व षाट्कौशिकं पिण्डम् । एतेन सङ्घं जानीहि केवलमहङ्कारमात्रमेव । ४ ँ ९ ँ ॥ १३॥ ४ ँ ९ ँ । मा देहं भूतमयं प्रगृह्यतां किन्तु शाश्वतं नित्यम् । स्वानुभव- मात्रसिद्वं सच्चिदानन्दमात्रं स्वमेव । ४ ँ ९ ँ ॥ १४॥ ४ ँ ९ ँ । मोहमयं त्रिधास्थितं दृश्यात्मैतज्जगद्भित्त्वा । मण्डलमनन्त- ममलं विमृश्यान्तर्धियाऽऽगच्छ । ॐ ह्रीं ह्रूं ह्रैं ४ ँ हसरक्षमलवयऊँ ९ ँ ॥ १५॥ आर्यात्मपद्यबन्धानि वाक्यानि दश पञ्च च । पदानां ब्रह्मविद्येयं षष्ठषष्ट्यधिकं शतम् ॥ १॥ अथवा सर्वभूतानां मरणान्ते उपस्थिते । इयमुत्क्रामणी विद्या येनात्मा याति सङ्गतिम् ॥ २॥ इति श्रीनिःश्वाससंहितायां अष्टमे पटले ब्राह्मी विद्या समाप्ता ।