अक्षर आकार:

ब्राह्मीविद्या

brAhmIvidyA

ब्राह्मीविद्या

अथ ब्राह्मीविद्या ॥ ॐ ॐ ॐ त्रिगुणपुरुष क्षेत्रचर मोहं भिन्धि रजस्तमसी भिन्धि प्राकृतं पाशजालं सावरणं परिहर सत्त्वं ग्रहाण पुरुषोत्तमोऽसि सोमसूर्यानल प्रवर परमधामन्ब्रह्मविष्णुमहेश्वररूप सृष्टिस्थितिसंहारकारक भ्रूमध्य निलय तेजोऽसि धामासि महात्मन् ॐ तत्सत् ॐ तत्सत् ॐ तत्सत् ॐ हंसः शुचिषद्वसुरन्तरिक्षसद्धोतावेदिषदतिथिर्दुरोणसत् नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् परम्ब्रह्मस्वरूप सर्वगत सर्वशक्ते सर्वेश्वर सर्वग्रन्थिभेदनं कुरु कुरु परमपदं परामर्ष ब्रह्मद्वारं सर कुमार्गं जहि षाट्कोशकं शरीरं त्यज शुद्धोऽसि बुद्धोऽसि विमलोसि क्षमस्व स्वपदमासादय स्वाहा ॥ ॐ हंसो नारायणः प्रोक्तो हंस आत्मेति निश्चितम् । स एवात्मा स भगवान्विष्णुस्तद्ब्रह्म सर्वगम् ॥ इमां महाब्रह्मविद्यां प्रातः काले पठेत्तु यः । स याति परमं स्थानं यत्र गत्वा न शोचते ॥ इति ब्राह्मीविद्या समाप्ता ॥