अक्षर आकार:

बोधयित्वा सङ्घभावम्

bodhayitvA sangha bhAvam

बोधयित्वा सङ्घभावम्

बोधयित्वा सङ्घभावं नाशयित्वा हीनभावं नवशताब्दे कलीयुगाब्दे हिन्दुधर्मो विजयताम् ॥ ध्रु॥ राष्ट्रभक्तिं सामरस्यां दक्षसम्पत प्रार्थनाभिः वर्धयित्वा स्वाभिमानं पाञ्चजन्यं श्राव्यतां दीर्घतपसा पूर्णमनसा चारुवचसा वीरव्रत्या स्वार्थरहितं ज्ञानसहितं क्षात्रतेजो दर्शताम् ॥ १॥ वेदवाणी राष्ट्रवाणी धर्मसंस्कृति मूलगङ्गा लोकभाषो जीवनार्थं संस्कृतेन हि भाष्यतां हिन्दुदर्शन जीवभूता संस्कृतिः खलु विश्वमान्या भव्यभारत वैभवार्थं साच्यनित्यं सेव्यताम् ॥ २॥ ऐक्यभावं वर्धयित्वा भेदभावं वारयित्वा मातृमन्दिर पूजनार्थं नित्य शाखा गम्यतां हिन्दुबान्धव स्नेहबन्ध- स्सर्वसाधक शक्तिदायी विश्वमङ्गल शान्तिसुखदं हिन्दुराष्ट्रं राज्यताम् ॥ ३॥