अक्षर आकार:

भुवनमण्डले नवयुगमुदयतु

Bhuvanamandale Navayugamudayatu

भुवनमण्डले नवयुगमुदयतु

भुवनमण्डले नवयुगमुदयतु सदा विवेकानन्दमयम् । सुविवेकमयं स्वानन्दमयम् ॥ तमोमयं जनजीवनमधुना निष्क्रियताऽऽलस्यग्रस्तम् । रजोमयमिदं किंवा बहुधा क्रोध-लोभ-मोहाभिहतम् । भक्ति-ज्ञान-कर्म-विज्ञानैः भवतु सात्विकोद्योतमयम् ॥ १॥ वह्निवायुजलबलविवर्धकं पाञ्चभौतिकं विज्ञानम् । सलिलनिधितलं गगनमण्डलं करतल-फलमिव कुर्वाणम् । दिक्षु-विकीर्णं मनुजकुलमिदं घटयतु चैककुटुम्बमयम् ॥ २॥ सगुणाकारं ह्यगुणाकारं एकाकारमनेकाकारम् । भजन्ति एते भजन्तु देवं स्वस्वनिष्ठया विमत्सरम् । विश्वधर्ममिममुदारभावं प्रवर्धयतु सौहार्दमयम् ॥ ३॥ जीवे जीवे शिवस्वरूपं सदा भावयतु सेवायाम् । श्रीमदूर्जितं महामानवं समर्चयतु निजपूजायाम् । चरतु मानवोऽयं सुहितकरं धर्मं सेवात्यागमयम् ॥ ४॥