अक्षर आकार:

भुवमवतीर्णा नाकस्पर्धिनी

Bhuvamavatirna Nakaspardhini

भुवमवतीर्णा नाकस्पर्धिनी

भुवमवतीर्णा नाकस्पर्धिनी भारतधरणीयं, मामकजननीयम् ॥ शिरसि हिमालय-मुकुट-विराजिता पादे जलधिजलेन परिप्लुता मध्ये गङ्गापरिसरपूता भारतधरणीयं, मामकजननीयम् ॥ १॥ काश्मीरेषु च वर्षति तुहिनं राजस्थाने प्रदहति पुलिनं मलयस्थाने वाति सुपवनः भारतधरणीयं, मामकजननीयम् ॥ २॥ नानाभाषि-जनाश्रय-दात्री विविध-मतानां पोषणकर्त्री नानातीर्थ-क्षेत्रसवित्री भारतधरणीयं, मामकजननीयम् ॥ ३॥ पुण्यवतामियमेव हि नाकः पुण्यजनानां रुद्रपिनाकः पुण्यपराणामाश्रयलोकः भारतधरणीयं, मामकजननीयम् ॥ ४॥ - जि. महाबलेश्वरभट्टः