अक्षर आकार:

भवतु भारतम्

bhavatu bhAratam

भवतु भारतम्

शक्तिसम्भृतम् युक्तिसम्भृतम् । शक्तियुक्तिसम्भृतं भवतु भारतम् ॥ शस्त्रधारकं शास्त्रधारकम् । शस्त्रशास्त्रधारकं भवतु भारतम् ॥ रीतिसंस्कृतं नीतिसंस्कृतम् । रीतिनीतिसंस्कृतम् भवतु भारतम् ॥ कर्मनैष्ठिकं धर्मनैष्ठिकम् । कर्मधर्मनैष्ठिकम् भवतु भारतम् ॥ भक्तिसाधकं मुक्तिसाधकम् । भक्तिमुक्तिसाधकं भवतु भारतम् ॥