अक्षर आकार:

भवबन्धमुक्त्यष्टकम्

Bhavabandhamuktyashtakam

भवबन्धमुक्त्यष्टकम्

एकं द्वितीयरहितं सदबाधितं च सच्चित्स्वरूपमिति यच्छ्रुतिशीर्षपूगैः । जेगीयते सकललोकविवर्तभूतं तद्भावयामि सततं भवबन्धमुक्त्यै ॥ १॥ अन्नासुमानसमुखप्रकृतीञ्जगाद कोशान्छ्रुतिर्यदवबोधकृतेऽत्र पञ्च । सर्वान्तरं भृगुमुनिप्रवरेण दृष्टं तद्भावयामि सततं भवबन्धमुक्त्यै ॥ २॥ आनाशकेन तपसा बहुदक्षिणेन यज्ञेन दाननिचयाच्छ्रुतिपाठतश्च । इच्छन्ति वेत्तुमिह यद्धरणीसुराग्र्या- स्तद्भावयामि सततं भवबन्धमुक्त्यै ॥ ३॥ कश्चिद्विपश्चिदिह संसृतिसौख्यवाञ्छां सन्त्यज्य सद्गुरुमुपेत्य कृपापयोऽब्धिम् । विज्ञाय तद्वचनतः खलु मोदते य- त्तद्भावयामि सततं भवबन्धमुक्त्यै ॥ ४॥ प्राणान्नियम्य तु मनो हृदयारविन्दे भ्रूगह्वरे शिरसि वा प्रणिधाय सम्यक् । ध्यायन्ति यत्परगुरोर्वचनानुसारा- त्तद्भावयामि सततं भवबन्धमुक्त्यै ॥ ५॥ यज्जाग्रदादिसमये धृतविश्वमुख्य- नामातनोति बहिरन्तरवस्तुसेवाम् । सुप्तावबोधसहितस्य सुखस्य भोक्तृ तद्भावयामि सततं भवबन्धमुक्त्यै ॥ ६॥ वागादयःस्वविषयेषु चरन्ति येन सञ्चोदिताः प्रभुवरेण यथा सुभृत्याः । तत्सर्वकार्यकरणव्यवहारसाक्षि सञ्चिन्तयामि सततं भवबन्धमुक्त्यै ॥ ७॥ संन्यस्य कर्मनिचयं च तदङ्गभूतं सूत्रं शिखां च पुनरप्यबलादिरागम् । बोधाय यस्य यतते परिशुद्धचित्त- स्तद्भावयामि सततं भवबन्धमुक्त्यै ॥ ८॥ पद्याष्टकं पठति योऽर्थविबोधपूर्वं सञ्चिन्तयन्ननुदिनं प्रतिपाद्यवस्तुम् । भक्त्या युतः कलुषदूरनिजान्तरङ्ग- स्तस्याचिराद्धि भविता भवबन्धमुक्तिः ॥ ९॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं भवबन्धमुक्त्यष्टकं सम्पूर्णम् ।