अक्षर आकार:

भक्तिवर्धिनी

bhaktivardhinI

भक्तिवर्धिनी

यथा भक्तिः प्रवृद्धा स्यात्तथोपायो निरूप्यते । बीजभावे दृढे तु स्यात्त्यागाच्छ्रवणकीर्तनात् ॥ १॥ बीजदार्ढ्यप्रकारस्तु गृहे स्थित्वा स्वधर्मतः । अव्यावृत्तो भजेत्कृष्णं पूजया श्रवणादिभिः ॥ २॥ व्यावृत्तोऽपि हरौ चित्तं श्रवणादौ यतेत्सदा । ततः प्रेम तथाऽऽसक्तिर्व्यसनं च यदा भवेत् ॥ ३॥ बीजं तदुच्यते शास्त्रे दृढं यन्नापि नश्यति । स्तेहाद्रागविनाशः स्यादासक्त्या स्याद्गृहारुचिः ॥ ४॥ गृहस्थानां बाधकत्वमनात्मत्वं च भासते । यदा स्याद्व्यसनं कृष्णे कृतार्थः स्यात्तदैव हि ॥ ५॥ तादृशस्यापि सततं गृहस्थानं विनाशकम् । त्यागं कृत्वा यतेद्यस्तु तदर्थार्थैकमानसः ॥ ६॥ लभते सुदृढां भक्तिं सर्वतोऽप्यधिकां पराम् । त्यागे बाधकभूयस्त्वं दुःसंसर्गात्तथाऽन्नतः ॥ ७॥ अतः स्थेयं हरिस्थाने तदीयैः सह तत्परैः । अदूरे पिप्रकर्षे वा यथा चित्तं न दुष्यति ॥ ८॥ सेवायां वा कथायां वा यस्यासक्तिर्दृढा भवेत् । यावज्जीवं तस्य नाशो न क्वापीति मतिर्मम ॥ ९॥ बाधसम्भावनायं तु नैकान्ते वास इष्यते । हरिस्तु सर्वतो रक्षां करिष्यति न संशयः ॥ १०॥ इत्येवं भगवच्छास्त्रं गूढतत्त्वं निरूपितम् । य एतत्समधीयीत तस्यापि स्याद्दृढा रतिः ॥ ११॥ इति श्रीवल्लभाचार्यविरचिता भक्तिवर्धिनी समाप्ता ।