अक्षर आकार:

भजामि शैलसुतारमणम्

Bhajami Shailasutaramanam

भजामि शैलसुतारमणम्

हे हर! शङ्कर! जीवनभारमुपाहर श्रीचरणं भजामि शैलासुतारमणम् ॥ १॥ वसति नगेशः शैलशिलायाम्, प्रवहति गङ्गा शिरसि जटायां द्वितीयाचन्द्रकलापरिचुम्बितभस्मयुतं वदनम् ॥ भजामि ॥ २॥ गजपतिचर्मविनिर्मितवसनम्, अहिपतिमालसमर्चितवदनम् । त्रिपुरकथामास्मारयतीदं ते त्रितयं नियनम् ॥ भजामि ॥ ३॥ वृषभविलासी योगी शङ्कर हर परितापं त्रितयं शङ्कर! वेदपुराणकथापरिचुम्बति सततं ते चरणम् ॥ भजामि ॥ ४॥