अक्षर आकार:

भगवत्प्रातःस्मरणम्

bhagavatprAtaHsmaraNam

भगवत्प्रातःस्मरणम्

श्री गणेशाय नमः । प्रातः स्मरामि फणिराजतनौ शयानं नागामरासुरनरादिजगन्निदानम् । वेदैः सहागमगणैरूपगीयमानं कान्तारकेतनवतां परमं निधानम् ॥ १॥ प्रातर्भजामि भवसागरवारिपारं देवर्षिसिद्धनिवहैर्विहितोपहारम् । संदृप्तदानवकदम्बमदापहारं सौन्दर्यराशिजलराशिसुताविहारम् ॥ २॥ प्रातर्नमामि शरदम्बरकान्तिकान्तं पादारविन्दमकरन्दजुषां भवान्तम् । नानावतारहृतभूमिभरं कृतान्तं पाथोजकम्बुरथपादकरं प्रशान्तम् ॥ ३॥ श्लोकत्रयमिदं पुण्यं ब्रह्मानन्देन कीर्तितम् । यः पठेत्प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥ ४॥ इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीभगवत्प्रातःस्मरणं सम्पूर्णम् ॥