अक्षर आकार:

भातु भारतम्

bhAtu bhAratam

भातु भारतम्

मुनिभिरर्चितं देवपूजितं श्रुतिभिरूर्जितं शास्त्रचर्चितम् । प्रकृतिभूषितं ज्ञानसुन्दरं धरणिगौरवं भातु भारतम् ॥ १॥ सुरसरित्तटं सिन्धुशोभितं रुचिरपर्वतं कान्तकाननम् । कृषकसङ्कुलं सस्यश्यामलं विपुलगोब्रजं भातु भारतम् ॥ २॥ विविधबोधदैः सूरिभिश्चितं विमलबुद्धिभिर्क्षानिभिर्युतम् । विततकीर्तिभिः कोविदैः स्तुतं करुणमानसं भातु भारतम् ॥ ३॥ हरिनिषेवितं रामपावितं मुरघरक्षितं व्यासवर्णितम् । त्रिदशगोगुरुर्ब्राह्मणप्रियं रचितराष्ट्रकं भातु भारतम् ॥ ४॥ विदितसंस्कृतं ख्यातकौशलं विभवमण्डितं त्यागपण्डितम् । प्रयतमानुषं स्वर्णभूतलं सकलसुन्दरं भातु भारतम् ॥ ५॥ निहितपाकिकं चीनजित्वरं निरतरूसकं स्वस्य रक्षकम् । विपुलसम्पदं धर्मतत्परं प्रथितविक्रमं भातु भारतम् ॥ ६॥ सरलसूनृतं ग्राम्यजीवनं परमभावुकं भव्यमन्दिरम् । अनधकेतुकं स्वीयशासनं भुवनवन्दितं भातु भारतम् ॥ ७॥ -- वैद्यः रामस्वरूप शास्त्री