अक्षर आकार:

भाति मे भारतम्

Bhati Me Bharatam

भाति मे भारतम्

भाति मे भारतम्, भाति मे भारतम् । भूतले भाति मेऽनारतं भारतम् ॥ ध्रुवकम् ॥ मानवामानितं दानवाबाधितं निर्जराराधितं सज्जनासाधितम् । पण्डितैः पूजितं पक्षिभिः कूजितं भूतले भाति मेऽनारतं भारतम् ॥ १॥ यस्य सन्दृश्य सन्दृश्य शोभा नवा यस्य संस्मृत्य संस्मृत्य गाथा नवाः। रोमहर्षो नृणां जायते वै सतां भूतले भाति तन्मामकं भारतम् ॥ २॥ यच्च विश्रामभूमिर्मतं प्राणिनां यस्य चित्ते प्रभ्तोऽवकाशस्तथा । यत्र चागत्य गन्तुं न कोऽपीच्छुको भूतले भाति तन्मामकं भारतम् ॥ ३॥ पण्डितैर्योद्धभिर्वाणिजैः कार्मिकैः शस्त्रिभिः शास्त्रिभिवर्णिभिर्गोहिभिः। वानप्रस्थैश्च संन्यासैभिर्मण्डितं भूतले भाति मेऽनारतं भारतम् ॥ ४॥ - डाॅ रमाकान्त शुक्ल