अक्षर आकार:

भारतवन्दना १

Bharata Vandana 1

भारतवन्दना १

ज्ञान विज्ञान-सन्दोहा, कान्ति-शान्ति-स्वरूपिणीम् । अमरा भारती देवी, वन्दे मातरमन्वहम् ॥ षष्टि-कोटि-नरैर्युक्ता, द्विषष्टि कोटि-हस्तकाम् । गुणिभिः श्रमिभिर्जुष्टा, वन्दे मातरमन्वहम् ॥ बङ्ग-पञ्चनदैहृद्याम्, असमोत्कल-शोभिनीम् । कश्मीर-राजस्थानाढ्या, वन्दे मातरमन्वहम् ॥ मध्योत्तर-प्रदेशाभ्यां, विहारेण च भास्वतीम् । गुजरैस्तमिलं कान्ता, वन्दे मातरमन्वहम् ॥ केरलेनान्ध्रकेणेष्टा, हिमाचल-मनोरमाम् । महाराष्ट्रेण सन्दीप्ता, वन्दे मातरमन्वहम् ॥ कर्णाट-गीत-सङ्गीता, हरियाणा-विभास्वराम् । मेघालयेन संहृष्टा, वन्दे मातरमन्वहम् ॥ त्रिपुरा-मणिपूर्भ्यां च, सिक्खिमेन मनोहराम् । नागालैण्ड गुणैर्रम्या, वन्दे मातरमन्वहम् ॥ स्वच्छ-कीर्ति-सुधा-सिक्ता, विद्वन्मौक्तिक-मालिनीम् । वीराङ्गनां-यशः-शुभ्रा, वन्दे मातरमन्वहम् ॥ ज्ञान-विज्ञान-सम्पुष्टैः, राष्ट्रोत्थान-परायणे । क्रान्ति-दूतैः स्तुता हृद्या, वन्दे मातरमन्वहम् ॥ रोग-शोक-भय क्रोधं-दुःख-दारिद्रय-नाशिनीम् । सर्वज्ञा देवजुष्टा ता, वन्दे मातरमन्वहम् ॥