अक्षर आकार:

भारतस्य विजयोद्घोषः

Bharatasya Vijayodghoshah

भारतस्य विजयोद्घोषः

(उपजातिवृत्तम्) बालप्रणाशः बुधवृन्दहानिं बङ्गोद्भवानां वधमार्यनाशम् । दुवृत्तपाकैर्हृतदारस्बन्धुं विलोकयन् को लभते न क्षोभम् ॥ अनार्यपाकैर्भुवि भारते यो व्यधायि घातः स्वविनाशहेतोः । दैत्य-प्रणाशार्थमभिप्रवृत्तो दीप्ताशयोऽभूत् सफलो जनौघ ॥ पाकस्य भू-व्योम-समुद्रमध्ये कृतं प्रहारो वर-भारतीयैः । योधैस्तथा येन समग्रमेव पाकस्थलं प्राप विनाशलीलाम् ॥ संप्रेक्ष्य वीरान् वर-भारतीयान् निराशया शनत्रुप्रवीर-योधाः । सन्त्यज्य शस्त्राणि गृहाणि युद्धं भयाकुलाः स्वात्मसमर्पणं दधुः ॥ जगत् समग्रं प्रविलोक्य शौर्यं जय-ध्वनिं सन्तनुते समोदम् । शौयप्रकर्षाहित कीर्ति-लक्ष्मी- र्विराजते भारतभूर्मनोज्ञा ॥