अक्षर आकार:

भारत सुषमा

Bharata Sushama

भारत सुषमा

जयति भारतवर्षदेशः अमर-वीर - यशस्सुमानाम्, वश्यकर कल - कुङ्कुमानाम्, सुरभिभिर्भूखण्डमखिलं मोहयति मदमुग्धवेषः । जयति भारतवर्षदेशः । यस्य पदकमलं निकामम्, नव-नृपति-नयनाभिरामम्, ऊर्भिभिः स्नपयति सुसरलैर्भक्तिनम्रो निम्नगेशः । जयति भारतवर्षदेशः । आगगनमायस्त - कायः, हेममण्डित - हिमनिकायः, उत्तरस्यां यस्य खेलति मुकुटमिव पृथपर्वतेशः । जयति भारतवर्षदेशः । सुर-सुलभ सुषमा - निकेतः, यत्र हरति न कस्य चेतः, पावनो गाङ्ग-प्रवाहः स्वर्विहस्य विहित-निवेशः । जयति भारतवर्षदेशः । यत्र बुद्ध-विरक्ति - गीतम्, गीयते प्रतिगृहमतीतम्, यत्र कृष्णार्जुन-कथा गीता जयति कर्मोपदेशः । जयति भारतवर्षदेशः । यत्र रे, राणा प्रतापः, विहित-रिपुकुल - तीव्रतापः, विजयि-शिवराज-प्रबल-पदसैन्य-दलबल-चलितशेषः । जयति भारतवर्षदेशः । पद्मिनीव बभूव भूतिः, यत्र राजकुल - प्रसूतिः, विजयते स्म विजित्य शत्रून् यत्र रे विक्रमनरेशः । जयति भारतवर्षदेशः । यत्र कविगुरु-कालिदासः, यत्र हर्ष कला - विलासः, यत्र भवभूते विभूतेर्भाति करुणालय-विशेषः । जयति भारतवर्षदेशः । यत्र तुलसी - सूरदासौ अभवतां वाणी-विलासौ, यत्र मीरा, भारतेन्दुः, भूषणः कविकुलदिनेशः । जयति भारतवर्षदेशः । मदन मोहन - मालवीयः, अजनि जनसेवी यदीयः, धर्मभारभृतां धुरीणो विहित-नृपनीतिक-गवेषः । जयति भारतवर्षदेशः । यस्य गान्धी सूत्रधारः स्वर्गतो दिव्यावतारः, पृच्छति ``प्रणयी'' कबीन्द्रान्नास्त्ययं कस्माद्विशेषः । जयति भारतवर्षदेशः । - कविवर्यश्रीरामनाथपाठक ``प्रणयि'' महोदयानाम् , आरामण्डलवास्तब्यानाम् ।