अक्षर आकार:

भारतसंस्कृतिः संस्कृतभारती

Bharatasamskritih Samskritabharati

भारतसंस्कृतिः संस्कृतभारती

भारतसंस्कृतिः संस्कृतभारती द्वयमेतन्मम जीवनम् ॥ यत्र मुनीनां शमकलितानां मङ्गल-मन्त्रनिनादः । यत्र कवीनां मृदुभणितीनां मञ्जुलकाव्य-विनोदः ॥ यस्याः कीर्तिपताका सततं प्रचरति विश्वमशेषम् । यस्याः संस्तवलेशत एव विन्दति चित्तमकलुषम् ॥ यस्याः प्रवहति वेदोपनिषद्-गीताजलमतिरुचिरम् । यस्याः प्रभवति भाषासन्ततिरमिताकारा सुचिरम् ॥ यस्यै जीवनसमयो नीतः शङ्करमध्वमुनीनाम् । यस्यै कविताकर्म समर्पितमतुलं व्यासमुखानाम् ॥ यया जनानां योगरतानां विकसितमात्मज्ञानम् । यया कलानां नाट्यगतानां विस्तृतमखिलविधानम् ॥ यां परिपातुं परमतबाधाद् अनवरतं यतनीयम् । यामिह नेतुं सुललितमार्गे सङ्घटनं करणीयम् ॥ या गङ्गाजल-पुण्यतरङ्गैर्वहति पवित्रितगात्रम् । या कुलभवने परिजनवदने लसति घनादरपात्रम् ॥ - गु. गणपय्यहोळ्ळः