अक्षर आकार:

भारतप्रशस्तिः

Bharata Prashasti

भारतप्रशस्तिः

वेदभाभासितं सत्कलालासितं रम्यसङ्गीत - साहित्य - सौहित्यभूः । भारती - वल्लकी - झङ्कृतैर्झड्कृतं भूतले भाति मेऽनारतं भारतम् ॥ १ जाह्नवी-चन्द्रभागा-जलैः पावितं भानुजा-नर्मदा-वीचिभिर्लालितम् । तुङ्गभद्रा - विपाशादिभिर्भावितं भूतले भाति मेऽनारतं भारतम् ॥ २ विन्ध्य-सह्याद्रि-नीलाद्रि-मालान्वितं शुभ्र-हैमाद्रिहास-प्रभापूरितम् । अबूर्दारावली-श्रोणि-सम्पूजितं भूतले भाति मेऽनारतं भारतम् ॥ ३ अर्थकामान्वितं धर्ममोक्षान्वितं भक्तिभावान्वितं ज्ञानकर्मान्वितम् । नैकमार्गेः प्रभु चैकमाराधयद् भूतले भाति मेऽनारतं भारतम् ॥ ४ संस्कृतं प्राकृतं तामिलं तेलुगुं कन्नडं केरलीं बाङ्गलामाङ्गलाम् । वाचमन्यां च तां तां ब्रुवद् वर्धते राष्ट्रभाषायुतं मामकं भारतम् ॥ ५ व्यास-वाल्मीकि-रत्नाकरैरुज्ज्वलं स्वादु - कादम्बरी - पानलुब्धं सदा । कालिदासेन भासेन सन्द्योतितं भूतले भाति मेऽनारतं भारतम् ॥ ६ यत्र मन्दाकिनी पापसंहारिणी यत्र गोदावरी चारुसञ्चारिणी । देववाणी च यत्रास्ति मोदाकुला भूतले भाति तन्मामकं भारतम् ॥ ७ - डा० रमाकान्तशुक्लप्रणीतात् ``भाति मे भारतम्'' काव्यात् ।