अक्षर आकार:

भाररमाता बुधजनगीता

Bharatamata Budhajanagita

भाररमाता बुधजनगीता

भारतमाता बुधजनगीता निर्मलगङ्गाजलपूता ॥ शिरसि विराजित-हिमगिरिमुकुटं चरणे हिन्दु-महोदधि-सलिलं जघने सस्य-लता-तरु-वसनं जय भारतजननी ॥ ॠषिवर-घोषित-मन्त्र-पुलकिता कविवर-गुम्फित-पावन-चरिता धीर-वीर-नृप-शौर्य-पालिता जय भारतजननी ॥ मम मनसि सदा तव पदयुगलं संस्कृत-संस्कृति-सतत-चिन्तनं भाव-राग-लय-ताल-मेलनं जय भारतजननी ॥