अक्षर आकार:

भारतगौरवम् २

Bharata Gauravam 2

भारतगौरवम् २

(स्रग्धरा) आलोलोल्लोलमाला-कलकलकलिताम्भोधिकूलाल्ललामाद् यावन्नीहारभूमीधर - धवलशिला - लग्न - भू संविभागान् । सीमान्तादा च वङ्गोपसरिदधिपतिं यावदस्त्येष सस्यैः पत्रश्यामैर्द्रुमाग्रैर्वलयितवसुधो भारतं नाम देशः ॥ वङ्गैः सङ्गीतकीर्तिः कलितकलकलश्चोत्कलैरान्ध्रबन्धु- र्मद्रैरुन्निद्रमुद्रो जवजनितजयोद्गुर्जरः सिन्धुबिन्दुः । पञ्चापैरञ्चितश्रीर्मधुमधुरधुरो - मध्ययुक्तैर्विहारै - रार्यावर्ताभिधानो जयति जनपदो मानिनां जन्मभूमिः ॥ देवैराप्यायितश्रीरपि सुरझरिणी - निर्झराम्भः - पुनीतो, नीतः शिक्षां बृहत्याः पतिभिरनुदिनं कीर्तितो लेखवृक्षैः । मन्दारैः पारिजातादिभिरथ सहरिः पुण्यभोग्यः सुधाच्छो, गन्धर्वैर्गीयमानो विलसति सकलो भारतस्वर्गलोकः ॥ गुञ्जद्-भृङ्गालि-गीतैः श्रुतिसुखमधुरैः कूजदालोहिताक्षै- श्चूतास्वादातिरिक्तस्वरमुखर-पिकैर्माद्यदामोदवाहैः । पुष्पाणां पावमानः प्रकृति-वरवधू-नूतनाक्रीडमुग्धं दिग्धं शोभाभिरामं कुशलकृतिकलोल्लासितं भारतं नः ॥ चारित्र्याणां निधानं मनुजतनुभृतां संविधानं शुचीनां मर्यादानां निधानं विमलमतिमतां योगिनां सन्निधानम् । आधानं दिव्यभासां प्रकृतिविलसितागारमेकं प्रधानं राष्ट्र न्यायावधानं प्रतिपदमयते भारतोच्चाभिधानम् ॥ विश्वेशः सर्वशक्तिर्गिरिवरतनया-साहचर्यार्चितश्रीः सान्द्रानन्दामृताम्भोनिधिरमरसरिद्वीचिवाचाल मौलिः । स्वातन्त्र्योल्लासलोलां विलसितविभवां सर्वशोभाभिरामां भव्यां भव्यैकभावां भरत भुवमिमां सर्वदा सम्बिभर्तु ॥ -कवितार्किकचक्रवर्तिश्रीमहादेवशास्त्रिणाम्, वाराणसेयानाम् ।