अक्षर आकार:

भारतगौरवम् १

Bharata Gauravam 1

भारतगौरवम् १

(द्रुतविलम्बितम्) जयति भारत-राष्ट्र-वसुन्धरा जयति गौरव-सौख्य-समुज्ज्वला । जयति जीवन शक्ति-सुधाऽऽपगा जयति भूति-विभूषित-विग्रहा ॥ सकल-संसृति संस्कृति-सूत्रधा निखिल मानव-मान-विवर्धिनी । दुरित- दुःख भयौघ निवारिणी जयति भारतभू सुखदा सदा ॥ नव-सुकीर्ति-समुज्ज्वल-शोभया घृत-गुणावलि-दीप्ति-प्रदीपिता । सकल-लोक विलोचन-रूपिणी अभयदा वरदा सुख-सारिणी ॥ अमित-दान-वितोषित-मानवाः दहन-शक्ति विनाशित-दानवाः । विबुध गीत-गुणोच्छ्रय-शालिनी नव-यशस्तति-मौक्तिक-मालिनी ॥ गुणवतामनिशं हित-साधनी कुकृतिनामनिशं भय-साधनी । अनुदिनं प्रगतिं दधती मुदा हरति कस्य नरस्य न मानसम् ॥ निकष धर्षण-जात-महात्विषो दधति स्वर्णरुचः जयिनो जनाः । श्रम विकास-गुणाजन विश्रुता जगति नेतृपदं दघते बुधाः ॥ खर-मरीचि-मरीचि-सम प्रभा तुहिन-दीधिति-दीधिति-शोभना । वसुधरा वसुधा हित-काम्यया जहति वर्ष्म निजं समरे खरे ॥ नव-नवाङ्कुर शाद्बल शोभिनी कुसुम-संहति सम्भृत-माधुरी । हिम समृद्धि समेधित गौरवा वहति भारतभूर्गरिमोच्चयम् ॥ अरुणिमाऽऽनन-पद्मचये श्रितं तरुणिमा युग मानस-संस्थितम् । मधुरिमा वचने हृदि वर्त्मनि प्रययतेऽस्य यशो भुवनोऽखिले ॥ युधि बहु कति नैव कलेवरं वरममस्तु हुतात्मवता न वा ॥ प्रलय-वन्हि-समा प्रलयावहाः जगति पौरवराः श्रियमाश्रिताः ॥ ॥ । श्रुति-निनाद-समुज्ज्वल-मानसा सुकृत-कर्म-विपाक-विभाभृतः । बुधवरा भुवि लब्ध-सुकीर्तयो रुरुचिरेऽत्र जगद्धित-लालसा ॥ वसुभृतो वसुधामवग्राह्य ये भव-विभूति-विभूषित-जीवना । वसुततिं निज देश-हिताय ये विपणिनो बिजहुस्त इमेऽर्चिता ॥ श्रमजर्यैविजयं क्व च नार्जितं श्रमिभिरात्त-गुणोच्चय-शालिभिः । गुरुतरं गरिमाणमवाप्य ते सकल-लोक-ललाम-सृतिं ययुः ॥ असम-शौर्य-प्रधर्षित-शत्रवो निज-पतिव्रत-धर्म-श्रित-श्रियः । हितमवेक्ष्य भुवो धृतहेतयः कथममूर्ललना न गुणास्पदाः ॥ बटुजनैर्यन्ददर्शि स्वपौरुषं समरमेत्य तदाऽऽङ्ग्ल-प्रशासकैः । जहुरिमे निजजीवनमाहवे गुणवतामवतां च धुरि स्थिता ॥ निजसुखान्यवमत्य धृतव्रता, भरत-भू-हित साधन-तत्तरा । विबुध-वृन्द-सुगीत-गुणोच्चया, यतिवरां भुवने श्रितकीर्तयः ॥ सकलमन्ध-तमस्तति-सन्ततं जगदभूदिदमेव शुचाऽऽकुलम् । श्रुति निनाद-प्रणोदित तामसा ऋषिवरास्त इमे महिला हिताः ॥ स्वयशसा तपसा च समेधिताः सकल-लोक हिताय कृतश्रमाः । निखिल मोह-महासुर-नाशकाः मुनिवरा प्रथिता भुवनेऽखिले ॥ भरत भू-गुण-गौरव-कीर्तने मतिरुदेति मुदा प्रमदावहा । स्व धरणी गुण-कीर्तन-विश्रुत, अमरता लभते सुकवि सदा ॥ भरत-भू-हित चिन्तन तत्पराः, भरत-भू हित त्यक्त कलेवराः । भरत-भू-गुण-गौरव-सत्कृताः, भरत-भू-तनयास्त इमे सुराः ॥