अक्षर आकार:

भारतभूप्रशस्तिः

Bharata Bhuprashasti

भारतभूप्रशस्तिः

जय भारतभूमि भासि विश्वभुवन-वन्दिता मुहुरमराः सन्ति सुमुखि तव वैभव-विस्मिताः । हिमगिरिवरहीरकमयमुकुटस्तव भासते सुरसरिदियमुरसि विमलहारस्तव राजते ॥ जय०॥ १॥ चुम्बति तव चरणाम्बुजमम्बुधिरपि दण्डवत् कम्बुबहुल-मौक्तिकदल - मणिकदम्बमाददत् । प्रणमति तव पादपद्ममम्बरतल - चुम्बिभिः शतसहस्र-मूर्ध्नभिरिव तुङ्गोज्ज्वल-वीचिभिः ॥ जय०॥ २॥ करधृत-नव-पल्लवदल - चामर इव किङ्करः मलयशिखरिमरुदभिमुखमर्चति हिमशीकरः । चन्दनरस-बिन्दुभिरिव किरणैस्तव चन्द्रमाः स्नपयति वपुरवनीश्वरि ! परिचरतिच ते रमा ॥ जय०॥ ३॥ अमृतकुम्भ-धन्वन्तरि-धन्य - धवल - वाजिभिः सहगजेन्द्र-मन्दारक - नन्दनवन - राजिभिः । मन्दरगिरि - गुरुमन्थन - दुग्ध-सिन्धुमन्दिरा दुदगमदियमलसङ्गतिर्भिरुद्यदिन्दुरिन्दिरा ॥ जय०॥ ४॥ -साहित्याचार्यश्रीताराचरणभट्टाचार्याणाम्, वाराणसेयानाम् ।