अक्षर आकार:

भारतभूषा संस्कृतभाषा

Bharatabhusha Samskritabhasha

भारतभूषा संस्कृतभाषा

भारतभूषा संस्कृतभाषा विलसतु हृदये हृदये । संस्कृतिरक्षा राष्ट्रसमृद्धिः भवतु हि भारतदेशे ॥ श्रद्धा महती निष्ठा सुदृढा स्यान्नः कार्यरतानां स्वच्छा वृत्तिर्नव उत्साहो यत्नो विना विरामम् । न हि विच्छित्तिश्चित्तविकारः पदं निदध्मस्सततं सत्यपि कष्टे विपदि कदापि वयं न यामो विरतिम् ॥ श्वासे श्वासे रोमसु धमनिषु संस्कृतवीणाक्वणनं चेतो वाणी प्राणाः कायः संस्कृतहिताय नियतम् । श्वसिमि प्राणिमि संस्कृतवृद्ध्यै नमामि संस्कृतवाणीं पुष्टिस्तुष्टिस्संस्कृतवाक्तः तस्मादृते न किञ्चित् ॥ नाहं याचे हारं मानं न चापि गौरववृद्धिं नो सत्कारं वित्तं पदवीं भौतिकलाभं कञ्चित् । यस्मिन् दिवसे संस्कृतभाषा विलसेज्जगति समग्रे भव्यं तन्महदद्भुतदृश्यं काङ्क्षे वीक्षितुमाशु ॥ - जनार्दन हेगडे