अक्षर आकार:

भारतं ततं नुमो भारतं तं नुमः

Bharatam Tatam Numo Bharatam Tam Numah

भारतं ततं नुमो भारतं तं नुमः

(गीति) (सग्विणी-वृत्तम्) यत्र वेदध्वनि पापसंहारिणी यत्र शास्त्रादि-चर्चा मनोमोहिनी । यत्र वेदान्त-विद्या सुधाधायिनी भारतं तं नुमो भारतं तं नुमः ॥ यत्र सत्य शिव सुन्दर राजते यत्र धर्मार्चना वीरपूजा सदा । यत्र विश्व कुटुम्ब मत श्रेयसे भारतं तं नुमो भारतं तं नुमः यत्र गङ्गा नदी, यत्र कालिन्दिका यत्र गोदा च कृष्णा च कावेरिका । यत्र सिन्धुर्विपाशा शुभा नर्मदा भारतं तं नुमो भारतं तं नुमः ॥ यत्र रामश्च कृष्णश्च विश्वात्मनौ यत्र बुद्धो वसिष्ठश्च वल्मिकश्च । गौतमो जैमिनि श्रीकणादो मुनि भारतं तं नुमो भारतं तं नुमः ॥ यत्र रामायणं च महाभारतं दर्शनानां च योः यत्र ज्ञानामृतम् ॥ यत्र स्मृत्यादिकं धर्मशास्त्रोच्चयो- भारतं तं नुमो भारतं तं नुमः ॥ यत्र सीता सती रामप्राणप्रिया यत्र कृष्णप्रिया राधिका राजते । यत्र गार्गी च विद्योत्तमा राजते भारतं तं नुमो भारतं तं नुमः ॥ यन्त्र व्यासो मुनि पाणिनि पिङ्गलः कालिदास कविर्भारविर्भास्वरः । माघ-हर्षादयः काव्यकारोत्तमाः भारतं तं नुमो भारतं तं नुमः ॥ यत्र कादम्बरी विज्ञ-चेतोहरी मेघदूत मनोदूत-कान्त मतम् । गीतगोविन्दकं कृष्णलीलामृतमं भारतं तं नुमो भारतं तं नुमः ॥ यत्र हैमो हिमाच्छादिनं पवतो यत्र कश्मीर भू स्वर्ग शोभा-स्थली । विन्ध्यमालाऽवली-सत्पुडा-संहतिः भारतं तं नुमो भारतं तं नुमः ॥ यत्र काशी पुरी ज्ञान विद्या-प्रदा यत्र काञ्ची पुरी ज्ञान-गीताश्रया । यत्र वृन्दावनं कृष्णलीलाश्रमं भारतं तं नुमो भारतं तं नुम ॥ यत्र तीर्थाधिपः सङ्गमो राजते नेहरू-मालवीयो नृणामादृतौ । उत्तरः स प्रदेशो जनैर्गीयते भारतं तं नुमो भारतं तं नुमः ॥ यत्र बौद्धा विहारा अशोको नृपो ज्ञान-विद्या-स्थल या नालन्दकम् । स्तूप-चैत्येर्विहारोऽस्ति ख्यातिं गतो भारतं तं नुमो भारतं तं नुमः ॥ क्रान्तिदूतं सुभाषो वसुर्भासते बकिमो देशभक्तो रवीन्द्र कविः । रामकृष्णारविन्दादृता वङ्गभूः भारतं तं नुमो भारतं तं नुमः ॥ नानको भक्तवर्यश्च शिष्याग्रणी, यत्र गोविन्दसिंहश्च सिंहोपम । लाजपत्रार्चिता पुण्यपञ्चालभूः भारतं तं नुमो भारतं तं नुमः ॥ यत्र राणाप्रताप प्रतापाश्रयो भक्त-मीरा सुवीरा प्रिया पद्मिनी । राजपुत्र-स्थली जैन-पूजा-स्थली भारतं तं नुमो भारतं तं नुमः ॥ यत्र गान्धिर्गुणाब्धि पटेल सुधी, धर्ममूर्तिदयानन्द-स्वामी स्थितः । सोमानाथान्वितो गुर्जरो राजते भारतं तं नुमो भारतं तं नुमः ॥ लौह-सयन्त्र-भूमिर्भिलाई-युतो विक्रमेणाचितोऽवन्तिका-सङ्गत । मध्यदेशोऽत्र भोपाल-सिप्रान्तितो भारतं तं नुमो भारतं तं नुमः ॥ बालगङ्गाधरो यत्र ज्ञानेश्वर सन्त-दास शिवाजी-शिवाराधित । यत्र मुम्बापुरी तन्महाराष्ट्रकं भारतं तं नुमो भारतं तं नुमः ॥ शकरो दिव्यधीर्यत्र रामानुज सायणौ माधवौ यत्र रामेश्वरम् । यत्र कर्णाट-सङ्गीत-शोभा-स्थली भारतं तं नुमो भारतं तं नुमः ॥ यत्र क्रान्तेश्च शान्तेश्च दूता स्थिता, ज्ञान विज्ञान-शोर्य-स्थलं गीयते । विश्वबन्धुत्व-शिक्षा-प्रसार-स्थलं भारतं तं नुमो भारतं तं नुमः ॥