अक्षर आकार:

भारतीयजनतन्त्रोपलब्धय

Bharatiya Janatantra Upalabdhaya

भारतीयजनतन्त्रोपलब्धय

(उपजातिवृत्तम्) यल्लोकतन्योद्धरणाय हृद्यं प्रक्रान्तमासीज्जनता हिताय । आयोजनं पञ्च-सुवर्ष मूलं साफल्यमाप्तं सुख-शान्ति-वृद्ध्यैः ॥ कृषैर्विकासाय नवप्रयोगैः यन्त्रैर्नवैः क्रान्ति-समुद्भवोऽभूत् । हरिच्छन्द-क्रान्ति-समुन्नयार्थं विधिर्नूतना लोक मनोहरोऽभूत् ॥ यत्रापि कुत्रापि कृषेस्तु योग्या भूमिर्दृशोर्गोचरतामयासीत् । राज्येन सङ्गृह्य तथाविधा भूः कृषौ प्रयुक्ताः जनता-समृद्ध्यैः ॥ ससेचनार्थं परियोजना या युक्ता प्रयुक्ताश्च विभिन्नभागे । क्रान्ति कृषौ हर्ष-समुद्भवश्च व्यलोकि लोकैर्जन-मानसेषु ॥ उद्योग-क्षेत्रे नव-पारपत्रम् । प्रदान-कार्यस्य विधि ऋजूकृत् । येनात्म-नैर्भैर्य-समाश्रयेण विकास-कार्यं-प्रगति प्ररुढा ॥ यच्चार्यभट्टो गगने चकासन् भूपग्रहो भाति श्रयन् सुकीर्तिम् । स भारतीयाय-जनस्य लोके वैज्ञानिकीमुन्नतिमातनोति ॥ यद् भारतीयैः परमाणु अस्त्र- परीक्षणे या कृतिता त्वदर्शिः । वैज्ञानिकानां गरिमाणमेतद् लोकत्रयेऽपि प्रथयत्यजस्त्रम् ॥ विद्युद्गृहाणामणु चालितानां संस्थापनं भारत-गौरवाय । फिगेट-नाम्ना जल-पीतकानां निर्माणमिष्टा श्रियमादधाति ॥ औद्योगिकं प्रापयितुं विकासं संयन्त्रकाणीह प्रवर्तितानि । सलौह वृद्ध्यै परिशोधनार्थं तैलस्य, चैवोवरकस्य देशे ॥ या चाप्यपूर्वा समुपागता श्री भव्यं नवं भारतवर्षमेतत् । बङ्गाहवे पाक-चमू दलन्तः स्थले जले व्योम्नि च सर्वतोऽपि ॥ पाकैर्विपाको युधि यश्च लब्धः स्वक्रुर कृत्यस्य नृशंसतायाः । पैशाचिकं चाचरितं जघन्यं कृत्यं फलं तत् तनुतेऽनुरूपम् ॥ वड्गीय-बाला वनिता नराश्च सपीडिता शान्तिलवं न तेषु । अवाप्य ते भारत-भू-सुसख्यं स्वातन्त्र्यमाप्ता विनयावनम्रा ॥ लक्षाधिका पाकचमूचराः ये योधा गृहीताः विवशाः विवर्णाः । लब्धं फल तैर्निज-धृष्टतायाः ते चान्वभूवन् नरकं पृथिव्याम् ॥ यश्चापि सन्धि शिमला-प्रदेशे देशं-द्वयेऽभूद् जनता-हिताय । आश्रित्य तं भारत-पाक-देशैः सबन्ध-सामान्यमुपागतं च ॥ आदृत्य लोकस्य विचार-जातं प्रान्ता नवीना विहिताश्च केचित् । मेघालयश्च अरुणाचलश्च मणे पुरं च त्रिपुराभिधानम् ॥ सञ्चिन्त्य देशैक्यमवेक्ष्य नीतिं राज्यं गृहीतं सिखिमाभिधानम् । संप्रेक्ष्य चैव जनता-मतं तु अभूदिदं भारत-भूमि-भागम् ॥ यल्लोकतन्त्रं, निरपक्षिता च धर्मे, व्यवस्था विनियोजिताऽर्थे । सामाजिकी स्यात् प्रगति प्ररूढा सैवाऽऽथिता नीतिरदृप्तभावात् ॥ शान्तिः स्वदेशे, प्रगतिर्विकासे, मैत्री विदेशैः, करुणाऽऽर्तदेशे । निर्भीन्न्ताऽजौ, विमतिर्विरोधे, सर्वोदया नीतिरुपास्यते च ॥ अर्थ-व्यवस्था सुविरूढ-मूला कर्तुं श्रिता नीतिरुदार-भावा । लोकाश्रयोद्योग-परम्पराणां अग्रेसरत्वं प्रतिपादितं च ॥ राष्ट्रीकृता केचन लब्धवर्णाः उद्योगजाता नृहितं समीक्ष्य । समायिता च सुविधा समस्ता राज्ञा समत्वं प्रतिपादनार्थम् ॥ अवर्षणादे कृषि-कार्य-जाते रुद्धो विकासो जन शोषणाय । हरिच्छदं-क्रान्तिमुपास्य सर्वो रोधोष्वरद्धं कृषकार्थ सिद्ध्ये ॥ मुद्रा-गत-स्फीति निवारणार्थं समाश्रिताश्च बहवो ह्युपायाः । साफल्य-लाभाद् जनता-मनःसु विश्वास-भावोदय-वृद्धिरासीत् ॥ उद्योग-कृत्ये कृषि-कार्य-जाते निरन्तरं वृद्धिमुपैति राष्ट्रम् । प्रवर्तिते योजन-कार्य-जाते व्यलोकि लोककैरुदयं समस्तैः ॥ कठोर-दण्डाश्रयणेन राष्ट्रे विलोक्यते संयम-वृद्धिरिष्टा । शान्तिर्व्यवस्था स्वनुशासनं च तापार्त-लोके धृतिमादधाति ॥ उन्मूलितास्ते ऋणजाश्च बन्धाः प्रणांशितं शोषित-शोषणं च । दीनार्त-लोकोद्धरणं समीक्ष्य भूमिं प्रदिष्टा सुख-वास-हेतोः ॥ आक्रामकाः येऽविरतः यतन्ते देशा अशेषा अहितं निरीक्ष्य । तेषां विमर्दार्थमभीष्ट साधनी नृ-वाहिनीं सिंह-सम-क्रमाऽऽस्ते ॥ सञ्चार कार्ये विपुला विवृद्धिः इष्टा विशिष्टा प्रगतिं तनोति । दूरेक्षणे दूर-प्रभाषणे च समुन्नतिं कस्य मुदं न धत्ते ॥ ग्रामेषु पुर्यां नगरेषु चैव चिकित्सकानां भिषजा नियुक्तिः । आरोग्य-हेतोर्नव-यन्त्र-वृद्धिः शय्या-विवृद्धिश्च हितं तनोति ॥ शिक्षा-प्रसाराय प्रवर्तिताश्च राज्येषु नूत्ना विविधा हयुपायाः । शुल्क-प्रमुक्तिः-र्बुक-बैङ्क-युक्तिः प्रोत्साहनार्थं बहु-छात्रवृत्तिः ॥ स्त्रीणा च यूनां च हिताय प्रेष्ठा कार्यक्रमाः शासन-दिष्ट-रुपा । एवं प्रदृष्टा नव-योजनान्ते समुन्नतिं सर्व दिगाश्रयाः सा ॥