अक्षर आकार:

अयि जननि मां पाहि

Ayi Janani Mam Pahi

अयि जननि मां पाहि

अयि जननि मां पाहि नुतशरणचरणं स्मेरमुखि जगदम्ब वितनु मयि करुणाम् ॥ मम वदनमनुवदतु तव पुण्यचरितं श्रोत्रकुहरे पततु तव नाम शुभदं कायोऽस्तु कुसुमवत् तव पूजनाय प्राणा हि सन्त्वम्ब तव सेवनाय ॥ धनकनकतो भवति न हि सार्थकत्वं पदवृद्धिधनकीर्तितो नैव सिद्धिः तव पूतपदयुगलयोस्सदाश्रयणं सकलजगदधिदेवि मम भवतु सततम् ॥ विदधामि जगदम्ब तव विजयघोषं सह मित्रबान्धवैस्तारमनवरतं इच्छामि दातुमहमधिगताधिकं जन्मैतदतिफल्गु मम भवतु सफलम् ॥