अक्षर आकार:

अरविन्दो विजयते

Aravindo Vijayate

अरविन्दो विजयते

(उपजातिवृत्तम्) ज्ञानप्रभा-भासित-मानसं तं सद्धर्म-धीरैयमसक्त-चित्तम् । अध्यात्म-पीयूष-हृताऽघवृन्दं ज्ञानारविन्दं गुणिनं नतोऽहम् ॥ क्रान्ते सृतिं यः समुपास्य पूर्वं कारागृहे वासमुरीचकार । सन्यस्य सर्वं विभवं विरक्तो यो योगसाघात् तमहं नमामि ॥ पाण्डोश्चरीये सुखदाश्रमे यः तपोऽन्वतिष्ठत् मुनिवृन्द-वन्द्य । स्वाध्यात्म-विज्ञान-परम्परार्थं यः स्तूयते विश्वमुनिप्रवीरैः ॥ सदा जगद्ध्वान्त निवारणार्थं घोरं तपो यः तमुपास्त लोके । यज्ज्ञानज्योतिर्ज्वलन्तीह दिव्यं गुणारविन्दं तमहं प्रपद्ये ॥ यद्दर्शनं ज्ञानदृशामुपास्यं मर्त्यं ह्यमर्त्यं विदधाति सद्य । भवाब्धिपारोत्तरणाय सेतु घोषारविन्दं व्रतिनं श्रयेऽहम् ॥