अक्षर आकार:

अन्तर्यामी मम भगवान्

antaryAmI mama bhagavAn

अन्तर्यामी मम भगवान्

कवि डाॅक्टर श्रीधर भास्कर वर्णेकरः, नागपुरम् तुङ्गहिमाचलकिरीटशाली । गङ्गायमुनारेवामाली । रविशशिमण्डलदिव्यकुण्डली । अगणितऋषिमुनिविभूतिमान् ॥ भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ १॥ शान्तो दान्तो नित्यसंयमी । यागी योगी द्दढयमनियमी । महामनस्वी स्वात्मविक्रमी । जगद्गुरुर्यो विद्यावान् ॥ भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ २॥ स्वसिति सनातनवैदिकमन्त्रम् । गायति रामायणं पवित्रम् । भागवतं भारतं विचित्रम् । महामनीषी प्रतिभावान् ॥ भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ ३॥ देशे देशे निपीडितानाम् । विवासितानां विपट्गतानाम् । असहायानां दीनजनानाम् । आश्रयदाता करुणावान् ॥ भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ ४॥ भवतु शरीरं चित्तं वित्तम् । सदैव भारतसेवायत्तम् । सर्वस्वं भारताय दत्तम् । स एव परमेश्वरो महान् ॥ भारतदेशो जयतु महान् । अन्तर्यामी मम भगवान् ॥ ५॥ ॥ इति अन्तर्यामि मम भगवान् ॥