अक्षर आकार:

अन्तःकरणप्रबोधः

antaHkaraNaprabodhaH

अन्तःकरणप्रबोधः

अन्तःकरण मद्वाक्यं सावधानतया श‍ृणु । कृष्णात्परं नास्ति दैवं वस्तुतो दोषवर्जितम् ॥ १॥ चाण्डाली चेद्राजपत्नी जाता राज्ञा च मानिता । कदाचिदपमानेऽपि मूलतः का क्षतिर्भवेत् ॥ २॥ समर्पणादहं पूर्वमुत्तमः किं सदा स्थितः । का ममाधमता भाव्या पश्चात्तापो यतो भवेत् ॥ ३॥ सत्यसङ्कल्पतो विष्णुर्नान्यथा तु करिष्यति । आज्ञैव कार्या सततं स्वामिद्रोहोऽन्यथा भवेत् ॥ ४॥ सेवकस्य तु धर्मोऽयं स्वामी स्वस्य करिष्यति । आज्ञा पूर्वं तु या जाता गङ्गासागरसङ्गमे ॥ ५॥ यापि पश्चान्मधुवने न कृतं तद्द्वयं मया । देहदेशपरित्यागः तृतीयो लोकगोचरः ॥ ६॥ पश्चात्तापः कथं तत्र सेवकोऽहं न चान्यथा । लौकिकप्रभुवत्कृष्णो न द्रष्टव्यः कदाचन ॥ ७॥ सर्वं समर्पितं भक्त्या कृतार्थोऽसि सुखी भव । प्रौढापि दुहिता यद्वत्स्नेहान्न प्रेष्यते वरे ॥ ८॥ तथा देहे न कर्तव्यं वरस्तुष्यति नान्यथा । लोकवच्चेत्स्थितिर्मे स्यात्किं स्यादिति विचारय ॥ ९॥ अशक्ये हरिरेवास्ति मोहं मा गाः कथञ्चन । इति श्रीकृष्णदासस्य वल्लभस्य हितं वचः । चित्तं प्रति यदाकर्ण्य भक्तो निश्चिन्ततां व्रजेत् ॥ १०॥ इति श्रीवल्लभाचार्यविरचितोऽन्तःकरणप्रबोधः समाप्तः ।