अक्षर आकार:

अनेकविषयमुक्तकश्लोकाः

Anekavishayamuktakashlokah

अनेकविषयमुक्तकश्लोकाः

अनेकपूर्वाचार्यैरनुगृहीताः श्रीरस्तु । श्रीमते हयग्रीवायनमः । श्रीमते रामानुजाय नमः ॥ यस्य प्रसादकलया बधिरः श‍ृणोति पङ्गुः प्रधावति जवेन च वक्ति मूकः । अन्धः प्रपश्यति सुतं लभते च वन्ध्या तं देवमेव वरदं शरणं गतोऽस्मि ॥ १॥ आशैलादद्रिकन्याचरणकिसलयन्यासधन्योपकण्ठात् आरक्षोनीतसीतामुखकमलसमुल्लासहेतोश्च सेतोः । आ च प्राच्यप्रतीच्यक्षितिधरयुगलाच्चन्द्रसूर्यावतंसात् मीमांसाशास्त्रयुग्मश्रमविमलमना मृग्यतां मादृशोऽन्यः ॥ २॥ न वयं कवयस्तु केवलं न वयं केवलतन्त्रपारगाः । अपि तु प्रतिवादिवारणप्रकटाटोपविपाटनक्षमाः ॥ ३॥ वन्दे गोविन्दतातौ मुनिमथ मनवै लक्ष्मणार्यं महान्तं ध्यायेयं यामुनार्यं मम हृदि तनवै राममेवाभियायाम् । पद्माक्षं प्रेक्षिषीय प्रथममपि मुनिं नाथमीडे शठारिं स्तौमि प्रेक्षेय लक्ष्मीं शरणमशरणः श्रीधरं संश्रयेयम् ॥ ४॥ स्वं मेऽहं मे कुतस्तत् तदपि कुत इदं वेदमूलप्रमाणात् एतच्चानादिसिद्धादनुभवविभवात् सोऽपि साक्रोश एव । क्वाक्रोशः कस्य गीतादिषु मम विदितः कोऽत्र साक्षी सुधीः स्यात् हन्त त्वत्पक्षपाती स इति नृकलहे मृग्यमध्यस्थवत् त्वम् ॥ ५॥ अविद्यातो देवे परिवृढतया वा विदितया स्वभक्तेर्भूम्ना वा जगति गतिमन्यामविदुषाम् । गतिर्गम्यश्चासौ हरिरिति जितन्ताह्वयमनोः रहस्यं व्याजह्रे स खलु भगवान् शौनकमुनिः ॥ पुरा सूत्रैर्व्यासः श्रुतिशतशिरोर्थं ग्रथितवान् विवव्रे तं श्राव्यं वकुलधरतामेत्यं स पुनः । उभावेतौ ग्रन्थौ घटयितुमलं युक्तिभिरसौ पुनर्जज्ञे रामावरज इति स ब्रह्ममुकुरः ॥ ७॥ अर्वाञ्चो यत्पदसरसिजद्वन्द्वमाश्रित्य पूर्वे मूर्ध्ना यस्यान्वयमुपगता देशिका मुक्तिमापुः । सोऽयं रामानुजमुनिरपि स्वीयमुक्तिं करस्थां यत्सम्बन्धादमनुत कथं वर्ण्यते कूरनाथः ॥ ८॥ देवाधीशनृसिंहपाण्डवमहादूतप्रवालप्रभान् श्रीवैकुण्ठपतिं त्रिविक्रमहरिं नीरेशमेघेश्वरौ । नीलव्योमविभुं महोरगहरिं ज्योत्स्नेन्दुवक्त्रं हरिं चोरेशं कृतचिन्तभक्तहृदयावासं मुकुन्दाह्वयम् ॥ कामावासपतिं नृकेसरिवरं दीपप्रकाशप्रभुं श्रीयुक्ताष्टभुजास्पदेशमनघं श्रीमद्यथोक्तक्रियम् । इत्यष्टादशदिव्यमङ्गलवपुर्देवान् सरोयोगिना साकं निस्तुलकाञ्च्यभिख्यनगरीनाथान् नमामस्सदा ॥ श्रीमद् द्वारवरं महद्धि बलिपीठाग्र्यं फणीन्द्रहृदं गोपीनां रमणं वराहवपुषं श्रीभट्टनाथं मुनिम् । श्रीमन्तं शठवैरिणं कलिरिपुं श्रीभक्तिसारं मुनिं पूर्णं लक्ष्मणयोगिनं मुनीवरानाद्यानथ द्वारपौ ॥ श्रीमन्मज्जनमण्डपं सरसिजां हेतीशभोगीश्वरौ रामं नीलमणिं महानसवरं तार्क्ष्यं नृसिंहं प्रभुम् । सेनान्यं करिभूधरं तदुपरि श्रीपुण्यकोट्यां हरिं तन्मध्ये वरदं रमासहचरं वन्दे तदीयैर्वृतम् ॥ काषायशोभि कमनीयशिखानिवेशं दण्डत्रयोज्ज्वलकरं विमलोपवीतम् । उद्यद्दिनेशनिभमुल्लसदूर्ध्वपुण्ड्रं रूपं तवास्तु यतिराज ! दृशोर्ममाग्रे ॥ ११॥ नमः प्रणवशोभितं नवकषायखण्डाम्बरं त्रिदण्डपरिमण्डितं त्रिविधतत्त्वनिर्वाहकम् । दयाञ्चितदृगञ्चलं दलितवादिवाग्वैभवं शमादिगुणसागरं शरणमेमि रामानुजम् ॥ १२॥ एतानि तानि भुवनत्रयपावनानि संसाररोगशकलीकरणौषधानि । जिह्वातले मम लिखानि यथा शिलायां रामानुजेति चतुराण्यमृताक्षराणि ॥ १३॥ इति अनेकविषयमुक्तकश्लोकाः समाप्ता ।