अक्षर आकार:

अनादित्वपरिष्कारः

Anaditvaparishkarah

अनादित्वपरिष्कारः

अनाद्यविद्यासचिवः करोति य इदं जगत् । स पायादनुकम्पार्द्रचेतांश्चन्द्रार्धशेखरः ॥ १॥ ननु किमिदमनादित्वमविद्यायाः? न ताव- त्प्रागभावाप्रतियोगित्वं, प्रागभावेऽतिव्याप्तेः । किं च, सिद्धान्ते मूलाविद्यायां लक्षणसमन्वयेऽपि तूलाविद्यानां सादित्वात्तास्वव्याप्तिश्च । न च ``मायां तु प्रकृतिं विद्यात्'' इत्यादिश्रुत्या मायैकत्वप्रतिपादनात्, मायाविद्ययोश्चैक्यात्, मूलाविद्याया एव लक्ष्यत्वमिति तूलाविद्यासु लक्षणासत्त्वमिष्टमेवेति वाच्यम्; ``इन्द्रो मायाभिः पुरुरूप ईयते'' इत्यादिश्रुत्यैकवाक्यता- सम्पत्तये ``मायां तु'' इत्यादिश्रुत्यन्तर्गतैकवचनस्य जात्येकपरतयैव नेयत्वात् । न च विनिगमना- विरहेण ``मायां तु'' इत्यादिश्रुत्यैकवाक्यतासम्पत्तये ``इन्द्रो मायाभिः'' इत्यादिश्रुत्यन्तर्गतबहुवचनस्य मायावृत्तिगतबहुत्वपरत्वमेवोचितमिति वाच्यम्; एवं ``अयमनादिरनन्तो नैसर्गिकोऽध्यासः'' इत्यादि- भाष्यविरोधापत्तेः । तत्रत्याध्यासपदस्याविद्यापरत्वात् । न च भाष्यस्थानन्तपदं नानेकत्वविशिष्टपरं, अपि तु नाशरहितपरमिति वाच्यम्; तथा सति ``अस्यानर्थहेतोः प्रहाणाय'' इत्यध्यासनाशप्रतिपादकभाष्यविरोधापत्तेः । तस्मात् ``इन्द्रो मायाभिः'' इत्यादिश्रुतिस्थबहुवचनं न मायावृत्तिगतबहुत्वपरं, किन्तु मायाबहुत्वपरमेवेति तूलाविद्यानामपि लक्ष्यत्वस्याङ्गीकृततया तासु च प्रागभावाप्रतियोगित्वरूपानादित्वस्याभावादव्याप्ते- र्दुरद्धरतया न प्रागभावाप्रतियोगित्वमनादित्वम् । न च तासां प्रवाहतोऽनादित्वमिति शङ्क्यं; प्रत्येकमविद्या- व्यक्तीनां सादित्वात्, प्रवाहस्य चावस्तुत्वादिति चेत् । अत्र केचित्- ``कालत्वव्यापकतावच्छेदकाविद्याकत्वमेव प्रवाहतोऽनादित्वं, कालत्वं चाविद्याचित्सम्बन्धः । इत्थं च यत्राविद्याचित्सम्बन्धरूपकालत्बं तत्राविद्यात्वा- वच्छिन्ना काचिद्व्यक्तिस्तिष्ठत्येव । सम्बन्धसत्त्वस्य सम्बन्धिसत्त्वव्याप्यत्वात्'' इत्याहुः । तन्न; अविद्यात्वे कालत्वव्यापकतावच्छेदकत्वं हि कालत्वाधिकरण- वृत्यत्यन्ताभावप्रतियोगितानवच्छेदकत्वमेव । तथा चाविद्याचित्सम्बन्धरूपकालत्वविगमेऽपि ब्रह्मणि तदधिकरणत्वं नापैति । यथा घट उत्पत्तिक्षणा- वच्छेदेन गन्धाभावेऽपि गन्धाधिकरणत्बं न हीयते । इत्थं च निरुक्तकालत्वाधिकरणे ब्रह्मणि मुक्ततादशायां कस्याश्चिदप्यविद्यात्वावछिन्नव्यक्तेरभावात् अविद्यात्वस्य निरुक्तकालत्वव्यापकतावच्छेदकत्वासम्भवात् ॥ गुरुचरणास्तु--प्रवाहतो अनादित्वं नाम-- स्वप्रागभावाधिकरणकालत्वव्यापकस्वसजातीयकत्वम् । यद्रूपावच्छिन्ने लक्षणं सङ्गमनीयं तद्रूपावच्छिन्नमेव स्वपदार्थः । स्वपदेताविद्याव्यक्तेः परिग्रहे स्वप्रागभावाधिकरणकालत्वं स्वपूर्वकाले तत्र चाविद्यात्वेन स्वसजातीयव्यक्तेर्नियमेन सत्त्वाल्लक्षण- समन्वयः । स्वप्रागभावाधिकरणकालत्वमित्यस्य सामानाधिकरण्यसम्बन्धेन स्वप्रागभावविशिष्ट- कालत्वमित्यर्थः । तथा च मुक्तदशायां ब्रह्मणि कालत्वाधिकरणत्वसत्त्वेऽपि स्वप्रागभावाभावान्न पूर्वोक्तदोषावकाशः ॥ यदि कश्चिद्ब्रूयात्-- ``सिद्धान्ते प्रागभावानङ्गीकारेण प्रागभावघटितोऽयं परिष्कारो न साधीयान्'' इति, तं प्रतिब्रूयात्-- सिद्धान्तेऽप्यसत्कार्यवादापत्तिभिया कार्याणां प्रागभावस्थानापन्नायाः प्रागवस्थायाः स्वीकार्यत्वात् । अन्यथा, मृद्येव घटः, क्षीर एव दधीत्यादिनियमभङ्गप्रसङ्गात् । तदेतत् ``युक्तेः शब्दान्तराच्च'' इति सूत्रव्याख्यानावसरे भगवत्पादै- रभ्यधायि । तथा च पूर्वोक्तपरिष्कारे प्रागभावस्थाने प्रागवस्थाया एव निवेशनीयत्वेन उक्तपरिष्कारस्य निर्दुष्टत्वात् । अधिकमन्यत्रानुसन्धेयमिति प्राहुः ॥ अनादित्वपरिष्कारादविद्याया यथामति । तुष्यन्तु सुधियस्त्वन्यगुणैककृतदृष्टयः ॥ १॥ ऐवं वा विन्यासः- प्रीयतां गिरिजाचित्तसरोरुहदिवाकरः ॥ २॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः अनादित्वपरिष्कारः समाप्तः ।