अक्षर आकार:

अमरभरतभुवनजाः

amarabharatabhuvanajAH

अमरभरतभुवनजाः

अमरभरतभुवनजाः महितचरितशोभनाः शयनमात्मनो विहाय कुरुत सपदि जागराम् । शुभदजीवनं विधातुमवितुमखिलमानवान् सम्पठाम संस्कृतं प्रसारयाम सत्वरम् ॥ १॥ क्लेशनिचयवारणाय साधनां प्रकुर्महे कष्टदुरित-तारणाय योजनां विदध्महे । लक्ष्यसिद्धिमुज्वालां विधातुमात्मनो वयं सम्पठाम संस्कृतं प्रसारयाम सत्वरम् ॥ २॥ युवजनान्तरङ्गके प्रकृत्य धर्मजागरां अन्धकारमग्नलोकमुद्धराम साम्प्रतम् । लक्ष्यसिद्धिमुज्वालां विधातुमात्मनो वयं सम्पठाम संस्कृतं प्रसारयाम सत्वरम् ॥ ३॥ अतुलसङ्घवैभवेन निखिलसोदरानिमान् पावयाम संस्कृतापगामृताम्भसा वयम् । पूतमानसैः समं ततो विदध्महे द्रुतं संस्कृतं यशोयुतं समर्थमार्षभारतम् ॥ ४॥ सर्वथा समर्थ-संस्कृतार्षदेशसृष्टये सर्वसद्गुणाभिपूर्णविश्वपौरवृद्धये । शाश्वतैक्यसाधनाय सामरस्यसिद्धये सम्पठाम संस्कृतं प्रसारयाम सत्वरम् ॥ ५॥ इति रणजितविरचितं अमरभरतभुवनजाः गीतं सम्पूर्णं ।