अक्षर आकार:

अमृतस्य पुत्रा वयं

Amritasya Putra Vayam

अमृतस्य पुत्रा वयं

अमृतस्य पुत्रा वयं सबलं सदयं नो हृदयम् ॥ गतमितिहासं पुनरुन्नेतुं युवसङ्घटनं नवमिह कर्तुम् ॥ भारतकीर्तिं दिशि दिशि नेतुं दृढसङ्कल्पा विपदि विजेतुम् ॥ ऋषिसन्देशं जगति नयेम सत्त्वशालिनो मनसि भवेम । कष्टसमुद्रं सपदि तरेम स्वीकृतकार्यं न हि त्यजेम ॥ दीनजनानां दुःखविमुक्तिं महतां विषये निर्मलभक्तिम् ॥ सेवाकार्ये सन्ततशक्तिं सदा भजेम भगवति रक्तिम् ॥ - गु. गणपय्यहोळ्ळः