अक्षर आकार:

अभिमानविचारोयं

Abhimanavicharoyam

अभिमानविचारोयं

अभिमानविचारोऽयं मम यदिदं हिन्दुराष्ट्रम् । ऋषिमुनिकविभिः पाश्चात्यैरपि नुतं सर्वश्रेष्ठम् इदं हिन्दुराष्ट्रम् ॥ माता भूमिः पुत्रोऽहं मातुः कार्यासक्तोऽहम् । त्यागात्तापात् तनुजातानां नश्यति नैव सुखम् ॥ यस्यां गङ्गा अवतरति देवो हि जनानुद्धरति यस्यां जातः सञ्चितपुण्यैः लब्धे स्वर्गे सञ्चरति देवानामपि जननं यत्र विद्यतेऽभीष्टम् ॥ आर्यं विश्वं करणीयं मुनिभिर्दृष्टः स्वप्नोऽयं तत्कुलजातैरस्माभिः सर्वमिदं हृदि धरणीयं येन भवेदखिलेऽपि प्रपञ्चे पुनः सर्वमान्यम् ॥ - डाॅ नारायणभट्टः