अक्षर आकार:

आयाहि रे ! आयाहि रे !

Ayahi Re ! Ayahi Re !

आयाहि रे ! आयाहि रे !

नायकः -आयाहि रे ! आयाहि रे ! आयाहि रे ! विहायसि सराग-रश्मि-चन्द्रमाः तनोति सान्द्र-रोचि-मञ्जु-चन्द्रिकाः सिन्धुरावघोषिताः रोदसीकन्दराः यान्तु यानपात्रचालकाः सधीवराः ॥ १॥ अनुयायिनः - याहि रे ! याहि रे ! याहि रे ! याहि रे ! या.अ.अहि ॥ नायकः - चन्द्रहासमज्जिता तामसी प्रिया सर्व-देह-कान्ति-पुञ्ज-मञ्जु-वल्गना । निश्चला विभासते तारलोचना यान्तु यानपात्रचालकाः सधीवराः ॥ २॥ अनुयायिनः - याहि रे ! याहि रे ! याहि रे ! याहि रे ! या.अ.अहि ॥ नायकः - सागरेण चुम्बिता चन्द्रिका मुदा राजते विलास-हास-लास्य-चित्रिता रागिणीव भासते रागरञ्जिता यान्तु यानपात्रचालकाः सधीवराः ॥ ३॥ अनुयायिनः - याहि रे ! याहि रे ! याहि रे ! याहि रे ! या.अ.अहि - श्री परीक्षित् शर्मा