अक्षर आकार:

आत्मस्तवः

Atmastavah

आत्मस्तवः

शमदमसाधनयुक्तैर्वेत्तुं योग्ये गुरुप्रसादेन । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ १॥ अन्नमयादिषु पञ्चसु ममताहीनैः सुखेन संवेद्ये । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ २॥ सकलागमान्तगेये सकलजगद्व्याप्य संस्थितेऽनन्ते । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ ३॥ आदौ प्रजाधिनाथेनोक्ते प्रणताय मघवते बहुशः । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ ४॥ इनचन्द्रतारकादिमजगतामवभासके स्वतः स्फुरति । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ ५॥ नचिकेतसे ऋषीश्वरपुत्रायात्यादरेण मृत्यूक्ते । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ ६॥ भ्रूमध्यहृदयशीर्षेष्वाहितचेतोभिराशु संवेद्ये । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ ७॥ मायामात्रादादृतनिखिलजगज्जन्ममुख्यकर्तृत्वे । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रुपे ॥ ८॥ मुनिनिकराय पुरा खलु वटमूलगतेन शम्भुनाऽऽदिष्टे । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रपे ॥ ९॥ यतिवरसदाशिवेन्द्रैरार्याभिस्तोषपूर्वसङ्गीते । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ १०॥ सुतगेहधनकलत्राद्यासक्तानां सुदूरतरे । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ ११॥ संन्यस्तसर्वकर्मभिरावेद्येऽत्यन्तसूक्ष्मशेमुषिभिः । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ १२॥ तृणतोऽप्यतिलघुतरमिदमखिलं विश्वं विलोकयन्योगात् । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ १३॥ दृश्यं हि नामरूपं रज्जूरगतुल्यमेव निश्चिन्वन् । अयमात्मनि रमतां किं वत्स श्रीकण्ठ सत्यचिद्रूपे ॥ १४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः आत्मस्तवः सम्पूर्णः ।