अक्षर आकार:

आत्मावबोधनस्तोत्रम्

Atmavabodhanastotram

आत्मावबोधनस्तोत्रम्

जाग्रत्स्वप्नसुषुप्तिषु शैशवकौमारवार्धकेष्वपि च । अनुवर्तमानमनिशं ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १॥ सद्गुरुसवनानरतः स्वाश्रमवर्णोचितानि कर्माणि । कुर्वद्भिर्विविदिषितं ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ २॥ उद्दालकः स्वपुत्रं यत्तत्त्वमसीति बोधयामास । साम्नामन्ते तदहं ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ३॥ स्थूलात्सूक्ष्माद्धेतोर्देहाद्भेदेन योगनिष्णातैः । अनुचिन्त्यमानमसकृद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ४॥ यददेहमखिलदेहेष्वनवस्थेषु व्यवस्थितं विभुं च । महदात्मभूतमभयं ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ५॥ हृदयस्थितानशेषांस्त्यक्त्वा कामन् समश्नुतेऽत्रैव । यत्परहंसस्तदहं ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ६॥ यदबोधाज्जगदखिलं विभाति पुरुषस्य सत्यतया । यद्बोधाच्च मृषा तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ७॥ प्रविलाप्य दृश्यजालं मिथ्येत्याचार्यवाक्यतः शास्त्रात् । यत्प्राप्नोति नरस्तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ८॥ यस्याज्ञानादखिलानर्थादिमकारणं शरीरादौ । आत्मत्वधीरभूत्तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ९॥ यत्साक्षात्कृतये हि श्रवणं मननं तथा ध्यानम् । प्राहुस्त्रय्यन्तास्तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १०॥ नद्यास्तीरे पुलिने गिरिमौलौ काननस्य कोणे यत् । ध्यायन्ति यतिवरास्तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ११॥ यत्र स्थितो विजानातीन्द्रोपेन्द्रादिपदमपीषदिति । तत्सुखविश्रान्तिपदं ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १२॥ श्रुत्याचार्यकृपातो योगाभ्यासेन चेश्वरकटाक्षात् । प्रभवति यद्बोधस्तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १३॥ यस्मिन्स्थिते न दुःखैरपि गुरुभिश्चाल्यते जातु । पुरुषः सुखरूपं तद्ब्रह्मास्म्यान्नायमस्तकावेद्यम् ॥ १४॥ यत्पृथ्व्यादिषु तिष्ठद्यमयति यद्वेद नैव पृथ्व्यादिः । अन्तर्याम्यभिधं तब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १५॥ विषयासक्तहृदां यद्दूरे तदसक्तचेतसां निकटे । उपरतवरलभ्यं तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १६॥ विनियम्य चक्षुरादीन्प्राणापानौ च चेतसा सह यत् । ध्यायन्ति योगिनस्तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १७॥ सनकादिभ्यः पूर्वं वटमूले शम्भुराह मौनेन । चिन्मुद्रया च यत्तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १८॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं आत्मावबोधनस्तोत्रं सम्पूर्णम् ।