अक्षर आकार:

आराधयेम निजराष्ट्रम्

Aradhayema Nijarashtram

आराधयेम निजराष्ट्रम्

आराधयेम निज राष्ट्रं आराधयेम निज राष्ट्रम् ॥ ध्रु॥ तनुजं हृद्जं धनजं तनु-हृद्-धन जीवनजम् । आराधयेम निज राष्ट्रं आराधयेम निज राष्ट्रम् ॥ १॥ अन्तरजं मुखजं कृतिजं निश्चल निर्मलमति भाजः । श्रद्धया च विनतशिरस्काः अभिवादयेम निज राष्ट्रम् ॥ २॥ निजसहास शैशव सहितं निजविकसद्यौवन सहितम् । प्रौढिमयुत जीवन सहितं सम्पूजयेम निजराष्ट्रम् ॥ ३॥ सम्पठ्याऽतीतं स्वीयं परिवृत्यैतिह्यं स्वीयम् । ज्ञात्वा भवितव्यं स्वीयं सम्पूजयेम निजराष्ट्रम् ॥ ४॥ युगयुगजा वयं स्मरामो प्रज्वलितरनैक घटनाः । या मातुःसेवाय पथे कृत्वा या ता दुर्गमनाः ॥ ५॥ अस्माभिर्याष्वभिषीक्ताः जननीरिपुशोणितकुण्डैः । मण्डितातथाऽस्माभिर्या जननीरिपुगण शतमुण्डैः ॥ ६॥ अस्माभिः प्रतिष्ठिता याः सांस्कृतिक उच्चवरपीठैः । कृत्वाऽऽरूढ़ा साऽकाशीत् सततं जगतः शासनम् ॥ ७॥ अथ कालचक्रदुर्गत्या तद् भग्नमुच्चवरपीठम् । निज तनु-हृद्-वसूनि दत्वा आराधयेम निज राष्ट्रम् ॥ ८॥ आराधयेम निज राष्ट्रम् । अनुवादकः - डाॅ सुरेशचन्द्र टी व्यास