अक्षर आकार:

महेश्वरानन्दप्रणीता महार्थमञ्जरी

mahArthama~njarI composed by maheshvarAnanda

महेश्वरानन्दप्रणीता महार्थमञ्जरी

नमो नालयते शुण्डां विषाणेन मृणालिने । प्रत्यक्कमलकन्दाय कर्णाभ्यां पर्णशालिने ॥ १॥ जयत्यमूलमम्लानमौत्तरं तत्त्वमद्वयम् । स्पन्दास्पन्दपरिस्पन्दमकरन्दमहोत्पलम् ॥ २॥ कारुण्यामृतसिन्धोरुदितमिवावर्तमीक्षणापाङ्गात् । मौक्तिकमयं दधाना ताटङ्कं जयति गौरवी मूर्तिः ॥ ३॥ स्फूर्तये विश्वशिल्पस्य श्रीशिवानन्दमूर्तये । नित्योन्मेषनिमेषायै निस्तुषायै नमस्त्विषे ॥ ४॥ यस्मादनुत्तरमहाह्रदमज्जनं मे सौभाग्यशाम्भवसुखानुभवश्च यस्मात् । तत्स्वात्मचित्क्रमविमर्शमयं गुरूणा- मोवल्लियुग्ममुदितोदितवीर्यमीडे ॥ ५॥ नमो निखिलमालिन्यविलापनपटीयसे । महाप्रकाशपादाब्जपरागपरमाणवे ॥ ६॥ गोरक्षो लोकधिया देशिकदृष्ट्या महेश्वरानन्दः । उन्मीलयामि परिमलमन्तर्ग्राह्य महार्थमञ्जर्याम् ॥ ७॥ स्वक्रियायां अपि व्याख्यां स्वयमेव प्रयुञ्ज्महे । उपर्यप्यात्मसरम्भसम्भोगाम्रेडनोत्सुकाः ॥ ८॥ यद्वा विनेयजनचित्तचमत्क्रियार्थ- मत्रोद्यमोऽयमुदितोऽस्तु तदेतदास्ताम् । सङ्क्षेपविस्तरविभागविविक्तशोभः पुष्पाञ्जलिर्भवतु वाङ्मय एष शम्भोः ॥ ९॥ अवगतशिवदृष्टिप्रत्यभिज्ञार्थतत्त्व- क्रमसरणिरहस्योल्लाससर्वस्ववेदी । गुरुचरणसपर्याचातुरीचिद्घनोऽहं गहनमपि हृदन्तर्व्योम तद्व्याकरोमि ॥ १०॥ इह महति रहस्योन्मीलने मङ्गलाय प्रभवति मम संविद्योगिनीनां प्रसादः । अति तु कुलसपर्याबिम्बसबन्ध्यवन्ध्याः सकृदपि मतिमन्तो नैनमुद्घाटयन्तु ॥ ११॥ स्वप्नसमयोपलब्धा सा सुमुखी सिद्धयोगिनी देवी । गाथाभिः सप्तत्या स्वापितभाषाभिरस्तु सम्प्रीता ॥ १२॥ वर्धतां देशिकः श्रीमान् संविन्मार्गश्च वर्धताम् । माहेश्वराश्च वर्धन्तां वर्धतां च महेश्वरः ॥ १३॥ ॥ अथ महार्थमञ्जरी ॥ नत्वा नित्यशुद्धौ गुरोश्चरणौ महाप्रकाशस्य । ग्रथ्नाति महार्थमञ्जरीमिमां सुरभिं महेश्वरानन्दः ॥ १॥ वर्धतां महाप्रकाशो विमर्शविच्छुरितनिश्छलोद्योतः । संज्ञाविशेषनिर्णयमात्रप्रवृत्तानि यत्र शास्त्राणि ॥ २॥ आत्मा खलु विश्वमूलं तत्र प्रमाणं न कोऽप्यर्थयते । कस्य वा भवति पिपासा गङ्गास्रोतसि निमग्नस्य ॥ ३॥ यं जानन्ति जडा अपि जलहार्योऽपि यं विजानन्ति । यस्यैव नमस्कारः स कस्य स्फुटो न भवति कुलनाथः ॥ ४॥ अवच्छिन्नं प्रत्यक्षमवच्छिन्नं तन्मुखं चानुमानम् । आगमदीपालोकस्तस्य प्रकाशयति किमपि माहात्म्यम् ॥ ५॥ येषां निरुपणीयो व्यतिरिक्तः कोऽप्यात्मनो भावः । आत्मविमुखानां तेषामधिकारिविभागविभ्रमो भवतु ॥ ६॥ यत्र रुचिस्तत्र विधिर्यत्रेयं नास्ति तत्र च निषेधः । इत्यस्माकं विवेको हृदयपरिस्पन्दमात्रशास्त्राणाम् ॥ ७॥ पर्यालोचनविमुखे वस्तुस्वभावस्यात्मनो हृदये । शङ्काविषवेगेनेव संसारभयेन मुह्यति लोकः ॥ ८॥ माणिक्यप्रवेक इव निचोलितो निजमयूखलेखया । प्रतिभाति लौकिकानामत्यन्तस्फुटोऽप्यस्फुट आत्मा ॥ ९॥ ऊर्ध्वो ज्वलति प्रकाशो लोकालोकस्य मङ्गलप्रदीपः । विमर्शदशामुखानीतदह्यमानमलालितैलविच्छर्दः ॥ १०॥ (विमर्शदशामुखेन दह्यते मलालितैलनिष्यन्दः ) सन्नैव हृदयप्रकाशो भवनक्रियाया भवति कर्ता । सैव क्रियाविमर्शः स्वस्था क्षुभिता च विश्वविस्तारः ॥ ११॥ पृथ्वीपरमशिवयोः प्रत्याहारे प्रकाशपरमार्थे । योऽन्योन्यविशेषः स एव हृदयस्य विमर्शोन्मेषः ॥ १२॥ तथा तथा दृश्यमानानां शक्तिसहस्राणामेकसङ्घट्टः । निजहृदयोद्यमरूपो भवति शिवो नाम परमस्वच्छन्दः ॥ १३॥ स एव विश्वमीक्षितुं स्थातुं कर्तुं चोन्मुखो भवन् । शक्तिस्वभावः कथितो हृदयत्रिकोणमधुमासलोल्लासः ॥ १४॥ ज्ञानं क्रियेति द्वयोरपि प्रथमोन्मेषे सदाशिवो देवः । द्वितीयाया उल्लेखे द्वितीयः स भवतीश्वरो नाम ॥ १५॥ ज्ञाता स आत्मा ज्ञेयस्वभावश्च लोकव्यवहारः । (ज्ञातृत्वधर्मा आत्मा ) एकरसां संसृष्टि यत्र गतौ सा खलु निस्तुषा विद्या ॥ १६॥ एकरसे स्वभावे उद्भावयन्ती विकल्पशिल्पानि । मायेति लोकपतेः परमस्वतन्त्रस्य मोहनी शक्तिः ॥ १७॥ सर्वकरः सर्वज्ञः पूर्णो नित्योऽसङ्कुचितश्च । विपरीत इव महेशो याभिस्ता भवन्ति पञ्चशक्तयः ॥ १८॥ य एष विश्वनाटकशैलूषः शुद्धसंविच्छम्भुः । वर्णकपरिग्रहमयी तस्य दशा कापि पुरुषो भवति ॥ १९॥ ज्ञानक्रियामायानां गुणानां सत्त्वरजस्तमस्स्वभावानाम् । अविभागावस्थायां तत्त्वं प्रकृतिरिति शाम्भवी शक्तिः ॥ २०॥ कल्लोलायमानानि सदा हृदयाम्बुनिधौ त्रीणि करणानि । आकर्षन्तीदन्तां तत्राहन्तां (तथा अहन्तां) चात्रार्पयन्ति ॥ २१॥ हृदयस्थितस्य विभोर्विषयालोको विश‍ृङ्खलो भवति । ज्ञानेन्द्रियदीपेषु निजनिजगोलाग्रनित्यलग्नेषु ॥ २२॥ भवन्ति करणानि पञ्च खलु कर्मप्रधानानि लोकनाथस्य । स्पन्दते स्वैर यैर्जनो जडाद्विलक्षणो भवन् ॥ २३॥ विश्वोद्यानविरूढानि गन्धप्रमुखानि सुगन्धीनि पुष्पाणि । पञ्चाप्याजिघ्रन् क्रीडति त्रैलोक्यधूर्तो देवः ॥ २४॥ स्त्यानस्य क्रमवशादिक्षुरसस्येव शिवप्रकाशस्य । गुडपिण्डा इव पञ्चापि भूतानि मधुरतां न मुञ्चन्ति ॥ २५॥ सर्वस्य भुवनविभ्रमयन्त्रोल्लासस्य तन्तुवल्लीव । विमर्शसंरम्भमयी उज्जृम्भते शम्भोर्महाशक्तिः ॥ २६॥ यदध्वनां च षट्कं तत्र प्रकाशार्थलक्षणमर्धम् । विमर्शशब्दस्वभावमर्धमिति शिवस्य यामलोल्लासः ॥ २७॥ आलेख्यविशेष इव गजवृषभयोर्द्वयः प्रतिभासः । एकस्मिन्नेवार्थे शिवशक्तिविभागकल्पनां कुर्मः ॥ २८॥ तिलमात्रेऽपि शरीरे प्रेक्षध्वं कीटस्यैतावती शक्तिः । सा स्वच्छन्दश्रियो विश्वशरीरस्य कियती भवतु ॥ २९॥ विश्वोन्मेषदशायां देशिकनाथस्य यावान्प्रसरः । कललावस्थयां (स्थितोऽपि) विश्वनिमेषेऽपि तावान्भवति ॥ ३०॥ त्रिपुटीमयं खलु समस्तं तत्र च ज्ञेये ज्ञातरि च समम् । दृढग्रन्थिर्ज्ञानकला कलयति त्रैलोक्यमेककलम् ॥ ३१॥ कः सद्भावविशेषः कुसुमाद्भवति गगनकुसुमस्य । यत्स्फुरणानुप्राणो लोकः स्फुरणं च सर्वसामान्यम् ॥ ३२॥ माणिक्यमरतकयोरिव भावाभावयोर्भेदप्रतिभासम् । एकरसोऽन्योन्य द्वयोरप्युन्मार्ष्टि (द्वयोः प्रमार्ष्टि) स्फुरणसम्भेदः ॥ ३३॥ अण्डमये निजपिण्डपीठे स्फुरन्ति करणदेव्यः । प्रस्फुरति च परमशिवो ज्ञाननिधिश्च तासां मध्ये ॥ ३४॥ स तत्रार्चनीयो विमर्शपुष्पाधिवाससुरभिभिः । चित्तचषकार्पितैर्वेद्यसुधावीरपानवस्तुभिः ॥ ३५॥ श्रीपीठपञ्चवाहो नेत्रत्रयवृन्दचक्राणि स्मरत । स्मरत च गुरूणां पङ्क्ति पञ्च च शक्तीः सृष्टिप्रमुखाः ॥ ३६॥ (४१) पीठे कला नव पञ्चैव पञ्चवाहपदव्याम् । सप्तदश फा(भा)लनेत्रे द्वादश षोडश चान्यनेत्रयोः ॥ ३७॥ (४२) प्रकटितपञ्चस्कन्धे चतुष्षष्टिर्भवन्ति वृन्दचक्रे । न खलु मण्डले गुरूणां नियमो नियमातिलङ्घिना (नियमानलं विना) युक्तः ॥ ३८॥ (४३) सृष्टौ दश कलाः स्थितौ द्वाविशतिर्भवन्ति शक्तयः । एकादश संहारे त्रयोदश तास्तुरीयपर्वणि ॥ ३९॥ (४४) भासायां न विकल्पाः स्फुरति स्फुरदेकनिष्कलश्रियाम् । यदि प्रतिबिम्बगत्या स्फुरति परं षोडशाधिका देवी ॥ ४०॥ (४५) सृष्टेः पञ्चमकला भासेति(पञ्चकलाभासे) जनो गणयति व्यवधानम् । (सृष्टेर्मूलकन्दो भासा भासायाः) सृष्टेर्मूलस्कन्धे भासायां पल्लवः सृष्टिः ॥ ४१॥ (४६) निजबलनिभालनमेव वरिवस्या सा च दुर्लभा लोके । सुलभानि विश्वपतेरासवताम्बूलगन्धपुष्पाणि ॥ ४२॥ (३६) विम्रष्टुं निजसत्त्वं विभवे कार्योन्मुखे स्तिमितेऽपि । बाह्यवृत्तान्तानां भङ्गः प्राणस्य संयमो ज्ञेयः ॥ ४३॥ (३७) शोषो मलस्य नाशो दाह एतस्य वासनोच्छेदः । आप्लावनं तनूनां ज्ञानसुधासेकनिर्मिता शुद्धिः ॥ ४४॥ (३८) अविकल्पतया विमर्शो विकल्पवर्गस्याङ्गसन्नाहः । अर्घ्यं वेद्यविलासः पुष्पाणि स्वभावपोषकाः भावाः ॥ ४५॥ (३९) पूर्णाहन्ताया मुखे विश्वविकल्पाङ्कुराणां विक्षेपम् । मन्त्रोल्लेखविशुद्धं पुण्यं कुलबिन्दुतर्पणं भणामः ॥ ४६॥ (४०) यो यस्य भावयोगस्तस्य खलु स एव देवता भवति । तद्भावभाविता अभिलषित तथा फलन्ति प्रतिमाः ॥ ४७॥ चित्रं न लिखति चित्रं चित्रकरः पश्यत लिखति तच्चित्रम् । तद् भणत कुत्र योग्या कर्तुं द्वयोरपि (रिति) देवताबुद्धिः ॥ ४८॥ (४७) मननमयी निजविभवे निजसङ्कोचभये त्राणमयी । कवलितविश्वविकल्पा अनुभूतिः कापि मन्त्रशब्दार्थः ॥ ४९॥ (४८) वैखरि(का) नाम क्रिया ज्ञानमयी भवति मध्यमा वाक् । इच्छा पुनः पश्यन्ती सूक्ष्मा सर्वासा समरसा वृत्तिः ॥ ५०॥ (४९) आनन्दोल्लासश्रीः क्षुल्लकिताष्टमहासिद्धिसौभाग्या । दृश्यते यत्र दशायां सैव देवस्य सर्व(महा)मुद्राः ॥ ५१॥ (५०) हृदयस्थानप्ररूढो विमर्शकल्पद्रुमो महाशाखः । पुष्प्यति भोगश्रिया फलति च निष्कलसुखोत्सवालोकम् ॥ ५२॥ (५१) क्रमिको भवति न देवस्तस्य कथं कालकल्मषस्पर्शः । नित्यनिरावरणस्यापि (को जीवतो मोक्षप्रत्यूहः) कोऽपि जीवन्मुक्तिप्रत्यूहः ॥ ५३॥ (५२) यत् किमपि येन केनापि रूपेण यत्र कुत्रापि किं नास्ति । तस्मादात्मा नित्यस्थिरः क्षणभङ्ग एवास्थिरो भवति ॥ ५४॥ (५३) नन्वात्मनः प्रियार्थं सर्वस्य प्रियत्वं भणति श्रुतिः । तस्मादानन्दस्वभाव आत्मा मुक्तोऽमुक्तो वा ॥ ५५॥ (५४) यदि निजहृदयोल्लासं निर्णेतुं नित्यनिष्कलमिच्छा । मध्यतुटिस्त्रुटितव्या अस्तङ्गतयोः सोमसूर्ययोस्त्तर्हि ॥ ५६॥ (५५) (मध्यतुटिस्त्रुटितव्याऽस्त्र यतोः सोमसूर्ययोः ॥) स्थूलतरेष्वपि प्रेक्षध्वं भूतेषु खस्य निष्कलावस्थाम् । षट्त्रिंशिकातिलङ्घी कीदृशो भवतु सोमनाथः ॥ ५७॥ (५६) ये कुलकुम्भसुधासवपानमहामखोत्सवे(महोत्सवसुखे) प्रवर्तन्ते । ते खलु विकल्पाङ्कुरसिका (विकल्पाङ्कुरान् रसिका) उपदष्टुं प्रगल्भन्ते ॥ ५८॥ (५७) हन्त मुखं प्रतिबिम्बतु प्रतिबिम्बयतु तथा तदपि दर्पणः । दर्पणः पुनर्यस्मिन् प्रतिबिम्बति सोऽपि ज्ञातव्यः ॥ ५९॥ (५८) अविकारोभयपार्श्वे चाषपिञ्जसदृक्षेऽर्थे । अन्तर्मुखो योगी बहिर्मुख इति कल्पना कुतः ॥ ६०॥ (५९) योगी जागरस्वप्नसुषुप्त्यवस्थात्रयस्य(सौषुप्ततुरीयपर्व)परिपाटिम् । चित्रामिव मणिमालां विमर्शसूत्रैकगुम्फितामुद्वहति ॥ ६१॥ (६०) उल्लोकानन्दसुधाशीधुरसोद्वेजितेन हृदयेन । अभिलषति लोकयात्रां तिन्तिणिचर्वणरसान्तरं योगी ॥ ६२॥ (६१) याभिर्गृह्णाति योगी करणप्रणालीभिर्विषयसौख्यानि । निजहृदयोद्वमनशीलाभिः स्फुरणमय ताभिः करोति त्रैलोक्यम् ॥ ६३॥ (६२) यथा तव स्थितिस्तथास्स्व निश्चिन्त इति ((खलु) प्रतिष्ठितोऽर्थः । तत्राप्यस्ति विवेक एवमुपदिशति त(क)स्य कोऽन्यः ॥ ६४॥ (६३) अहो संसारसुखकेली (संसारसुखातिशयः) अहो सुलभं मोक्षमार्गे सौभाग्यम् (मोक्षमार्गसौभाग्यम्) । त्रुटितातङ्ककलङ्का अहो शिवयोगिनां यामली सिद्धिः ॥ ६५॥ (६४) क्षणमात्रस्पृष्टेनाप्यमृतस्वभावेन ज्ञानभावेन । सर्वोत्तिर्णः सर्वः सर्वचिरं लभते सर्वसौभाग्यम् ॥ ६६॥ (६६) गूढाद्गुढतरो यो भवति स्फुटादपि स्फुटतर एषः । दैशिककटाक्षपाते पक्षः प्रथमो न भवति धन्यानाम् ॥ ६७॥ (६६) आस्तामन्या विद्याश्चतुःस्रोतसामपि सागराणामिव । एनमेवामृतमयं मथ्नाति मन्थानभैरवो देवः ॥ ६८॥ (६७) हन्त रहस्यं भणामो मुढा मा भ्रमत गर्भगोलेषु । अत्यासन्न हृदय पर्यालोचयत तस्योद्योगम् ॥ ६९॥ एनमेव महार्थं युद्धारम्भे पाण्डुपुत्रस्य । षोडशसहस्रशक्तिर्देव उपदिशति स्म माधवः (इति शिवम्) ॥ ७०॥ (६९) इत्थं प्राकृतसूत्रसप्ततिसमुल्लासैकसन्धायिनीं जाग्रत्तत्क्षणनिर्विशेषस्वप्नावतीर्णां प्रतिज्ञोत्तराम् । लोकोल्लङ्घनयोग्यसिद्धिपदवीप्रस्थानबद्धोद्यमां कन्थाशूलकपालमात्रविभवां वन्दे तां योगिनीम् ॥ ७१॥ (७०) इति गुरुमुखाम्नायन्यायान्महाक्रममञ्जरी- परिमलमिमं शिष्यप्रेम्णा बबन्ध महेश्वरः । कनकसदसो मध्ये नृत्यन्निव प्रभुरद्भुतं यदिह सुलभः साक्षात्कर्तुं विमर्शमयः शिवः ॥ गाथानामनुभाषणं तदनु तच्छाया ततो व्याकृति- र्ग्रन्थार्थग्रथनक्रियासु गहनो हृद्यश्च कश्चित् क्रमः । संवादोक्तिसहस्रसङ्कलनया तत्त्वार्थचर्चोत्सवः सौभाग्यश्च विमर्शसम्पद इति प्रस्थानमध्यक्ष्यताम् ॥ चोलास्ते सततोत्सवा जनपदाः श्लाघ्यो गुणैर्माधवो रेतोधाः स्फटिकावदातहृदयो नाथः प्रकशो महान् । स्रोतः स्वच्छमनुत्तरं परिणतं पाण्डित्यमास्थाधिका वश्या वागिति हन्त तन्त्रकृदसौ सर्वोत्तरो वर्तते ॥ यो मे वामचमत्क्रियोद्यममयः स्तब्धोऽपि सन्नश्नुते विश्वं व्याप्नुवतश्चिदद्वयमहश्चन्द्रोदयाद् विक्रियाम् । तस्याह्लादमहार्णवस्य न कथं वर्धेत कूलङ्कषो वाग्विक्षोभविजृम्भया बहुमुखं कल्लोलहल्लोहलः ॥ कावेर्या इव माधुर्यं कह्लारस्येव सौरभम् । नटेशस्येव तन्नृत्तमस्य ग्रन्थस्य गौरवम् ॥ विश्वोत्पत्तिविपत्तिभूः स भगवानत्र प्रवक्ता शिव- स्तस्याहं प्रतिशब्दपर्वतगुहा यन्मे न गर्वग्रहः । तद्दोषोऽस्तु गुणोऽपि वा न खलु तत् स्वायत्तमित्थं स्थिते मात्सर्यं महतामुदेतु यदि वा वात्सल्यमुज्जृम्भताम् ॥ अधिवासयतु सदा मुखमन्यकथालेपलब्धदौर्गन्ध्यम् । कर्पूरशकल इव मे शिव शिव इति शीतलः शब्दः ॥ ॥ इति श्रीगोरक्षापरपर्यायमहेश्वरानन्दविरचिता महार्थमञ्जरी समाप्ता ॥ कालचक्रघटीयन्त्रकल्पनामूलशिल्पिने । नम्ः स्वच्छन्दचिन्मात्रपरिबर्हाय शम्भवे ॥ पादुकोदयमहार्थमञ्जरीकोमलास्तवपरास्तुतिक्रमैः । स्फारयन् भुवि महार्थसंविदं देशिको विजयते महेश्वरः ॥ जयत्यमूलमम्लाममौतरं तत्त्वमद्वयम् स्पन्दास्पन्दपरिस्पन्दमकरदमहोत्पलम् ॥ ॥ शुभमस्तु ॥ From Muktabodha Indology Research Institute Library muktalib5.org