अक्षर आकार:

सर्वशास्त्रार्थ अणु भाष्य ( आनन्दतीर्थ)

sarvashAstrArtha aNu bhAShya ( AnandatIrtha)

सर्वशास्त्रार्थ अणु भाष्य ( आनन्दतीर्थ)

सर्वशास्त्रार्थसंग्रहः ॥ श्री गुरुभ्यो नमः हरिः ॐ ॥ ॐ विष्णुरेव विजिज्ञास्यः सर्वकर्ताऽगमोदितः । समन्वयादीक्षतेश्च पूर्णानन्दोऽंतरः खवत् ॥ १.१॥ प्रणेता ज्योतिरित्यादैः प्रसिद्धैरन्यवस्तुषु । उच्यते विष्णुरेवैकः सर्वैः सर्व गुणत्त्वतः ॥ १.२॥ सर्वगोऽत्ता नियंता च दृश्यत्त्वादुज्झितः सदा । विश्वजीवांतरत्त्वादैर्लिङ्गैः सर्वैर्युतः स हि ॥ १.३॥ सर्वाश्रयः पूर्णगुणः सोऽक्षरः सन् हृदब्जगः । सूर्यादिभासकः प्राणप्रेरको दैवतैरपि ॥ १.४॥ ज्ञेयो न वेदैः शूद्रादैः कन्दकोऽन्यश्च जीवतः । पतित्त्वादिगुणैर्युक्तः तदन्यत्र च वाचकैः ॥ १.५॥ मुख्यतः सर्वशब्दैश्च वाच्य एको जनार्दनः । अव्यक्तः कर्मवाच्यैश्च वाच्य एकोऽमितात्मकः ॥ १.६॥ अवान्तरं कारणं च प्रकृतिः शून्यमेव च । इत्यादन्यत्र नियतैरपि मुख्यतयोदितः । शब्दैरतोऽनन्तगुणो यच्छब्दा योगवृत्तयः ॥ १.७॥ ॥ इति प्रथमोऽध्यायः ॥ ॥ अथ द्वितीयोऽध्यायः ॥ ॐ श्रौतस्मृतिविरुद्धत्त्वात् स्मृतयो न गुणान्हरेः । निषेद्धुं शक्नुयुर्वेदानित्यत्वान्मानमुत्तमम् ॥ २.१॥ असज्जीवप्रधानादिशब्दाब्रह्मैव नापरम् । वदन्ति कारणत्वेन क्वापि पूर्णगुणो हरिः ॥ २.२॥ स्वातन्त्र्यात्सर्वकर्तृत्त्वान्नायुक्तं तद्भवेच्छ्रुतिः । भ्रान्तिमूलतया सर्व समयानामयुक्तितः ॥ २.३॥ न तद्विरोधाद्वचनं वैदिकं शङ्क्यतां व्रजेत् । आकाशादिसमस्तं च तज्जं तेनैव लीयते ॥ २.४॥ सोऽनुत्पत्तिलयः कर्ता जीवः तद्वशगः सदा । तदाभासो हरिः सर्व रूपेष्वपि समः सदा ॥ २.५॥ मुख्यप्राणश्चेन्द्रियाणि देहश्चैव तदुद्भवाः । मुख्यप्राणवशे सर्वं स विष्णोर्वशगः सदा ॥ २.६॥ सर्व दोशोज्झितः तस्माद् भगवान् पुरुषोत्तमः । उक्ता गुणाश्चाविरुद्धास्तस्य वेदेषु सर्वथा ॥ २.७॥ ॥ इति द्वितीयोऽध्यायः ॥ ॥ अथ तृतीयोऽध्यायः ॥ ॐ शुभेन कर्मणा स्वर्गं निरयं च विकर्मणा । मिथ्याज्ञानेन च तमो ज्ञानेनैव परं पदम् ॥ ३.१॥ याति तस्माद्विरक्तः सन् ज्ञानमेव समाश्रयेत् । सर्वावस्थाप्रेरकश्च सर्वरूपेष्वभेदवान् ॥ ३.२॥ सर्वदेशेषु कालेषु स एकः परमेश्वरः । तद्भक्तिस्तारतम्येन तारतम्यं विमुक्तिगम् ॥ ३.३॥ सच्चिदानन्द आत्मेति मानुषैस्तु सुरेश्वरैः । यथा क्रमं बहुगुणैर्ब्रह्मणत्त्वखिलैर्गुणैः ॥ ३.४॥ उपास्यः सर्वदेवैश्च सर्वैरपि यथा बलम् । ज्ञेयो विष्णुर्विशेषस्तु ज्ञाने स्यादुत्तरोत्तरं ॥ ३.५॥ सर्वेऽपि पुरुषार्थास्युः ज्ञानादेव न संशयः । न लिप्यते ज्ञानावंश्च सर्वदोषैरपि क्वचित् ॥ ३.६॥ गुणदोषैः सुखस्यापि वृद्धि ह्रासौ विमुक्तिगौ । नॄणां सुराणां मुक्तौ तु सुखं क्लृप्तं यथाक्रमम् ॥ ३.७॥ ॥ इति तृतीयोऽध्यायः ॥ ॥ अथ चतुर्थोऽध्यायः ॥ ॐ विष्णुर्ब्रह्म तथाऽदित्यत्येवं नित्यमुपासनम् । कार्यमापद्यपि ब्रह्म तेन यात्यपरोक्षताम् ॥ ४.१॥ प्रारब्धकर्मणोऽन्यस्य ज्ञानादेव परिक्षयः । अनिष्टस्योऽभयस्यापि सर्वस्यान्यस्य भोगतः ॥ ४.२॥ उत्तरेषोत्तरेष्वेवं यावद्वायुं विमुक्तिगाः । प्रविश्य भुञ्जते भोगांस्तदन्तर्बहिरेव वा ॥ ४.३॥ वायुर्विष्णुं प्रविश्यैव भोगश्चैवोत्तरोत्तरम् । उत्क्रम्य मानुषा मुक्तिं यान्ति देहक्षयात्सुराः ॥ ४.४॥ अर्चिरादि पठा वायुं प्राप्य तेन जनार्दनम् । यान्त्युत्तमा नरोच्चाद्या ब्रह्मलोकात्सहाऽमुना ॥ ४.५॥ यथासङ्कल्पभोगाश्च चिदानन्द शरीरिणः । जगत्सृष्ट्यादिविशयं महासामर्थ्य मप्यृते ॥ ४.६॥ यथेष्टशक्तिमंतश्च विना स्वाभाविकोत्तमान् । अनन्यवशगाश्चैव वृद्धिह्रास विवर्जिताः । दुःखादिरहितं नित्यं मोदंतेऽविरतं सुखम् ॥ ४.७॥ पूर्णप्रज्ञेन मुनिना सर्वशास्त्रार्थसंग्रहः । कृतोऽयं प्रीयतां तेन परमात्मा रमापतिः ॥ ४.८॥ नमो नमोऽशेषदोषदूर पूर्णगुणात्मने । विरिञ्चिशर्वपूर्वेड्य वन्द्याय श्रीवराय ते ॥ ४.९॥ ॥ इति चतुर्थोऽध्यायः ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं ब्रह्मसूत्राणुभाष्यं सम्पूर्णम् ॥ भारतीरमणमुख्यप्राणंतर्गत श्रीकृष्णार्पणमस्तु ॥