अक्षर आकार:

आद्यंत श्लोकाणि

Adyanta shlokANi

आद्यंत श्लोकाणि

श्री गीताभाष्यम् आदि देवंनारायणं नत्वा सर्वदोषविवर्जितम् । परिपूर्णं गुरूंश्चान् गीतार्थं वक्ष्यामि लेशतः ॥ १॥ अंत्य पूर्णादोषमहाविष्णोर्गीतामाश्रित्य लेशतः । निरूपणं कृतं तेन प्रियतां मे सदा विभुः ॥ १॥ ॥ श्री ब्रह्मसूत्रभाष्यम् ॥ आदि नारायणं सर्वगुणैरुदीर्णं दोषवर्जितम् । ज्ञेयं गम्यं गुरूंश्चापि नत्व सूत्रार्थमुच्यते ॥ १॥ अंत्य ज्ञानानंदादिभिस्सर्वैर्गुणैः पूर्णाय विष्णवे । नमोस्तु गुरवे नित्यं सर्वथातिप्रियाय मे ॥ १॥ यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलम् । बट्तद्दर्शनमित्थमेव निहितं देवस्य भर्गो महत् । वायोरामवचनोयं प्रथमकं पृक्षो द्वितीयं वपुः । मध्वोयत्तु तृतीयकं कृतमिदं भाष्यं हरौ तेनहि ॥ २॥ नित्यानंदो हरिर्पूर्णो नित्यदा प्रियतां मम । नमस्तस्मै नमस्तस्मै नमस्तस्मै च विष्णवे ॥ ३॥ ॥ श्रीमदणुभाष्यम् ॥ आदि विष्णुरेव विजिज्ञास्यः सर्वकर्ताऽऽगमोदितः । समन्वयादीक्षतेश्च पूर्णानंदोऽंतरः खवत् ॥ १॥ अंत्य नमो नमोऽशेषदोषदूर पूर्णगुणात्मने । विरिञ्चि शर्वपूर्वेड्यवंद्याय श्रीवराय ते ॥ १॥ ॥ श्रीमदनुव्याख्यानम् ॥ आदि नारायणं निखिलपूर्णगुणैकदेहं । निर्दोषमाप्यतममप्यखिलैस्सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि । वंद्यं सदा प्रियतमं मम सन्नमामि ॥ १॥ तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव । विशेषतोमे परमाख्यविद्या व्याख्यां करोम्यन्वपि चाहमेव ॥ २॥ अंत्य निःशेषदोषरहित कल्याणाखिलसद्गुण । भूतिस्वयंभुशर्वादिवंद्यं त्वां नौमि मे प्रियं ॥ १॥ ॥ श्रीप्रमाणलक्षणम् ॥ आदि अशेषगुरुमीशेशं नारायणमनामयम् । सम्प्रणम्य प्रवक्ष्यामि प्रमाणानां स्वलक्षणम् ॥ १॥ अंत्य अशेषमानमेयैक साक्षिणेऽक्षयमूर्तये । अजेशपुरुहूतेड्य नमो नारायणाय ते ॥ १॥ ॥ श्रीकथालक्षणम् ॥ आदि नृसिंहमाखिलाज्ञानतिमिराशिशिरद्युतिं । सम्प्रणम्य प्रवक्ष्यामि कथालक्षणमञ्जस ॥ १॥ अंत्य सदोदितामितज्ञानपूरवारितहृत्तमाः । नरसिंहः प्रियतमः प्रियतां पुरुषोत्तमः ॥ १॥ ॥ श्रीउपाधिखण्डनम् ॥ आदि नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः । अशेषदोषरहितः प्रियतां कमलालयः ॥ १॥ अंत्य मायावादतमोव्याप्तमिति तत्त्वदृषा जगत् । भातं सर्वज्ञसूर्येण प्रीतये श्रीपदेस्सदा ॥ १॥ नमोऽमंदनिजानंदसुंदरसांद्रमूर्तये । इंदिरापतये नित्यानंदभोजनदायिने ॥ २॥ ॥ श्रीमायावादखण्डनम् ॥ आदि नरसिंहोऽखिलाज्ञानमतध्वांतदिवाकरः । जयत्यमितसज्ज्ञान सुखशक्तिपयोनिधिः ॥ १॥ अंत्य नास्तिनारायण समं न भूतो न भविष्यति । एतेन सत्यवाक्येन सर्वार्थांसाधयाम्यहम् ॥ १॥ ॥ श्रीमिथ्यात्वानुमानधिखण्डनम् ॥ आदि विमतं मिथ्या दृश्यत्वाद्यदित्थं तत्तथा यथा सम्प्रतिपन्नम् । इत्युक्ते जगतोऽभावादाश्रयासिद्धः पक्षः ॥ १॥ अंत्य यो दृश्यते सदानंदनित्यव्यक्तचिदात्मना । निर्दोषाखिलकल्याणगुणं वन्दे रमापतिम् ॥ १॥ ॥ श्रीतत्त्वसङ्ख्यानम् ॥ आदि स्वतंत्रमस्वतंत्रं च द्विविधं तत्त्वमिष्यते । स्वतंत्रोभगवान्विष्णुः भावाभावौद्विधेतरत् ॥ १॥ अंत्य सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने । बंधो मोक्षः सुखं दुःखमावृतिर्ज्योतिरेव च । विष्णुनास्य समस्तस्य समासव्यासयोगतः ॥ १॥ ॥ श्रीतत्त्वविवेकः ॥ आदि स्वतंत्रं परतंत्रं च प्रमेयं द्विविधं मतम् । स्वतंत्रोभगवान्विष्णुः निर्दोषाखिलसद्गुणः ॥ १॥ अंत्य य येतत्परतन्त्रं तु सर्वमेव हरेः सदा । वशमित्येव जानाति संसारान्मुच्यते हि सः ॥ १॥ ॥ श्रीतत्त्वोद्योतम् ॥ आदि सर्वत्राखिल सच्छक्तिः स्वतंत्रोऽशेषदर्शनः । नित्यातादृशचिच्छेत्ययंतेष्टो नो रमापतिः ॥ १॥ अंत्य सत्यचिचेत्यपतये मुक्तामुक्तोत्तमाय ते । नमोनारायणायार्यवृंदवंदितपदद्वय ॥ १॥ जयत्यमितपौरुषः स्वजनतेष्टचिंतामणिः । अजेशमुखवंदितो गुणगणार्णवः श्रीपतिः ॥ २॥ सर्वज्ञासन्मुनींद्रोच्चसन्मनः पङ्कजाश्रयः । अजितो जयति श्रीशो रमाबाहुलताश्रयः ॥ ३॥ ॥ श्रीकर्मनिर्णयः ॥ आदि य ईज्यते विधीशानशक्रपूर्वैमुखैः सदा । रमाप्रणयिने तस्मै सर्वयज्ञाभुजे नमः ॥ १॥ अंत्य नमोनारायणायाजभव शक्रोष्णरुङ्मुखैः । सदा वंदितपादाय श्रीपाय प्रेयसेऽधिकम् ॥ १॥ ॥ श्रीविष्णुतत्त्वविनिर्णयः ॥ आदि सदागमैक विज्ञेयं समतीतक्षराक्षरम् । नारायणं सदा वन्दे निर्दोषाशेषसद्गुणम् ॥ १॥ विशेषणानि यानिह कथितानि सदुक्तिभिः । साधयिष्यामि तान्येव क्रमात् सज्जन संविदे ॥ २॥ अंत्य स्वतंत्रायाखिलेशाय निर्दोषगुणरूपिणे । प्रेयसे मे सुपूर्णाय नमो नारायणाय ते ॥ १॥ ॥ श्रीऋग्भाष्यम् ॥ आदि नारायणं निखिलपूर्णगुणार्णमुच्च । सूर्यामित्तद्युतिमशेषनिरस्तदोषम् । सर्वेश्वरं गुरुमजेशनुतं प्रणम्य । वक्ष्याम्यृगर्थमतितुष्टिकरं तदस्य ॥ १॥ अंत्य उपपृत्तः क्षत्रियैस्स आवेशेन जनार्दनः । हन्ति शत्रूंश्च तैर्देवो भये च स्वाश्रयं ददौ ॥ १॥ वर्ताऽभिगंता तरुता जेता चास्य न हि क्वचित् । युद्धं महाधनं त्वर्भं प्रसिद्धं धनमेव हि ॥ २॥ ॥ श्रीऐतरेयभाष्यम् ॥ आदि नारायणं निखिलपूर्णगुणैकदेहम् । सर्वज्ञमच्युतमपेतसमस्तदोषम् । प्राणस्य सर्वचिदचिद्परमेश्वरस्य । साक्षादधीश्वरमियां शरणं रमेशम् ॥ १॥ महाभूतिश्श्रुतिस्सैशां महाभूतिर्यतो हरिः । विशेषेणात्र कथितः सर्वज्ञाः शाश्वतः प्रभुः ॥ २॥ अंत्य पूर्णागण्यगुणोदारधाम्ने नित्याय वेदसे । अमंदानंदसांद्राय प्रेयसे विष्णवे नमः ॥ १॥ ॥ श्रीतैत्तिरीयभाष्यम् ॥ आदि सत्यं ज्ञानमनंतमानंदं ब्रह्म सर्वशक्त्येकं । सर्वैदेवैरीड्यं विष्ण्वाख्यं सर्वदैमि सुप्रेष्ठम् ॥ १॥ अंत्य पूर्णगण्यगुणोदारधाम्ने नित्याय वेदसे । अमंदानंदसांद्राय प्रेयसे विष्णवे नमः ॥ १॥ ॥ श्रीबृहदारण्यकभाष्यम् ॥ आदि प्राणादेरीशितारं परमुखनिधिं सर्वदोषव्यपेतम् । सर्वांतस्थं सुपूर्णं प्रकृति पतिमजं सर्वबाह्यं सुनित्यम् । सर्वज्ञं सर्वशक्तिं सुरमुनिमनुजाद्यैस्सदा सेव्यमानम् । विष्णुं वन्दे सदाहं सकलजगदनाद्यंतमानंददं तम् ॥ १॥ अंत्य पूर्णगण्यगुणोदारधाम्ने नित्याय वेधसे । अमंदानंदसांद्राय प्रेयसे विष्णवे नमः ॥ १॥ ॥ श्रीईशावास्यभाष्यम् ॥ आदि नित्यानित्य जगद्धात्रे नित्याय ज्ञानमूर्तये । पूर्णनंदाय हरये सर्वयज्ञभुजे नमः ॥ १॥ यस्माद्ब्रह्मेन्द्ररुद्रदेवतानां श्रियोपि च । ज्ञानस्फूर्तिस्सदा तस्मै हरये गुरवे नमः ॥ २॥ अंत्य पूर्णशक्तिचिदानंदश्रीतेजः स्पष्टमूर्तये । ममाभ्यधिक मित्राय नमो नारायणाय ते ॥ १॥ ॥ श्रीकठकभाष्यम् ॥ आदि नमो भगवते तस्मै सर्वतः परमाय ते । सर्वप्राणिहृदिस्थाय वामनाय नमो नमः ॥ १॥ अंत्य नमो भगवते तस्मै विष्णवे प्रभविष्णवे । यस्याहमाप्त आप्तेभ्यः यो मे आप्ततमस्सदा ॥ १॥ ॥ श्रीछान्दोग्यभाष्यम् ॥ आदि अत्युद्रिक्त विदोष सत्सुख महाज्ञानैकतान्प्रभा । सर्वप्राभवशक्तिभोगबलसत्सारात्मदिव्याकृतिम् ॥ १॥ सृष्टिस्थाननिरोधनित्यनियति ज्ञानप्रकाशावृत्ति । ध्वांतामोक्षविमोक्षदं हरिमजं नित्यं सदोपास्महे । हयग्रीवमुखोद्गीर्णगीर्भिर्देवी रमापतिम् । अस्तुवद्विस्तृतगुणं भोगिप्रस्तरशायिनम् ॥ २॥ अंत्य नित्यानंदो हरिःपूर्णो नित्यदा प्रियतां मम । नमस्तस्मै नमस्तस्मै नमस्तस्मै च विष्णवे ॥ १॥ ॥ श्रीआथर्वणभाष्यम् ॥ आदि आनंदमजरं नित्यमजमक्षयमच्युतम् । अनंतशक्तिं सर्वज्ञं नमस्ये पुरुषोत्तमम् ॥ १॥ मनोर्वैवस्वतस्यादावथर्वा ब्रह्मणोऽजनि । मित्रश्च वरुणस्चाथो प्रहेतिर्हेतिरेव च । ब्रह्मणः प्रथमे कल्पे शिवः प्रथमजः स्मृतः । सनकाद्यास्तु वाराहे ब्रह्मा विष्णोः सुतोग्रजः ॥ २॥ अंत्य प्रियतां भगवन्मह्यं प्रेष्ठप्रेष्ठतमस्सदा । मम नित्यं नमाम्येनं परमोदारसद्गुणम् ॥ १॥ ॥ श्रीमाण्डूक्यभाष्यम् ॥ आदि पूर्णनंदज्ञानशक्ति स्वरूपं नित्यमव्ययम् । चतुर्धा सर्वभोक्तारं वंदे विष्णुं परं पदम् ॥ १॥ अंत्य एकोपि निर्विशेषोऽपि चतुर्धा व्यवहारभाक् । यस्तं वंदे चिदानंदं विष्णुं विश्वादिरूपिणम् ॥ १॥ ॥ श्रीषट्प्रश्नभाष्यम् ॥ आदि नमो भगवते तस्मै प्राणादिप्रभविष्णवे । अमंदानंदसांद्राय वासुदेवाय वेदसे ॥ १॥ अंत्य नमो नमोस्तु हरये प्रेष्ठप्रेष्ठतमाय मे । परमानंदसंदोहसांद्रानंद वपुष्मते ॥ १॥ ॥ श्रीतळवाकारोपनिषद्भाष्यम् ॥ आदि अनंत गुणपूर्णत्वादगम्याय सुरैरपि । सर्वेष्टदात्रे देवानां नमो नारायणाय ते ॥ १॥ अंत्य यश्चिदानंद सच्छक्ति सम्पूर्णो भगवान्परः । नमोस्तु विष्णवे तस्मै प्रेष्ठाय प्रेयसां च मे ॥ १॥ ॥ श्रीगीतातात्पर्यम् ॥ आदि समस्तगुणसम्पूर्णं सर्वदोषविवर्जितम् । नारायणं नमस्कृत्य गीतातात्पर्यमुच्यते ॥ १॥ अंत्य नमस्ते वासुदेवाय प्रेयसां मे प्रियोत्तम । समस्तगुणसम्पूर्ण निर्दोषानंद दायिने ॥ १॥ निःशेषदोषरहित कल्याणाशेषलसद्गुण । भूतिस्वयंभूशर्वादिवंद्यं त्वां नौमि मे प्रियम् ॥ २॥ नमोजभवभूर्यक्षपुरः सरसुराश्रय । नारायणारणं मह्यं रमापते प्रेयसां प्रिय ॥ ३॥ ॥ श्रीन्यायविवरणम् ॥ आदि चेतनाचेतनजगन्नियंत्रेऽशेषसंविदे । नमोनारायणयाजशर्वशक्रादिवंदितम् ॥ १॥ अंत्य चेतनाचेतनास्यास्य समस्तस्य यदिच्छया । स मम सुकृतेनैव प्रियतां पुरुषोत्तमः ॥ १॥ ॥ श्रीनरसिंहनखस्तुतिः ॥ आदि पान्त्वस्मान् पुरुहूतवैरि बलवन्मातङ्ग माद्यद्घटा । कुंभोच्चाद्रि विपाटनाधिकपटु प्रत्येक वज्रायिताः । श्रीमत्कंठीरवास्य प्रतत सुनखरा दारितारातिदूर । प्रद्ध्वस्तध्वांत शांत प्रवितत मनसा भावितानाकिवृंदैः ॥ १॥ अंत्य लक्ष्मीकांत समंततोऽपिकलयन् नैवेशितुस्ते समम् । पश्याम्युत्तम वस्तु दूरतरतोपास्तं रसोयोऽष्टमः । यद्रोशोत्कर दक्ष नेत्र कुटिलः प्रांतोत्थिताग्नि स्फुरत् । खद्योतोपम विस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ॥ २॥ ॥ श्रीयमकभारतम् ॥ आदि ध्यायेत परमानंदं यन्मातापतिमयदपरमानंदम् । उज्झितपरमानंदं पत्याद्याद्याश्रमैः सदैव परमानंदम् ॥ १॥ अंत्य इति नारायणनामा सुखतीर्थसुपूजितस्सुरायणनामा । पूर्णगुणैरधिकज्ञाणेच्छाभक्तिभिस्स्वधिक पूर्णः ॥ १॥ ॥ श्रीद्वादशस्तोत्रम् ॥ आदि वन्दे वन्द्यं सदानंदं वासुदेवं निरञ्जनम् । इन्दिरापतिमाद्यादि वरदेश वरप्रदम् ॥ १॥ अंत्य आनंदचंद्रिकास्यंदक वंदे आनंदतीर्थपरानंद वरद ॥ १॥ ॥ श्रीकृष्णामृतमहार्णवम् ॥ आदि अर्चितः संस्मृतो ध्यातः कीर्तितः कथितः श‍ृतः । यो ददात्यमृतत्त्वं हि स मां रक्षतु केशवः ॥ १॥ अंत्य श्रीमदानंदतीर्थाख्य सहस्रकिरणोत्थिता । गोततिः सततं सेव्या गीर्वाणैः सिद्धिदा भवेत् ॥ १॥ ॥ श्रीतंत्रसारसंग्रहः ॥ आदि जयत्यब्जभवेशेंद्रवंदितः कमलापतिः । अनंत विभवानंद दशश्तिज्ञानादिसद्गुणः ॥ १॥ विधिं विधाय सर्गादौ तेन पृष्टोऽब्जलोचनः । आह देवो रमोत्सङ्गविलसत्पादपल्लवः ॥ २॥ यः सर्वगुणसम्पूर्णः सर्वदोषविवर्जितः । प्रियतां प्रीत एवालं विष्णुर्मे परमः सुहृत् ॥ ३॥ अंत्य अशेषदोषोज्झितपूर्णसद्गुणं सदाविशेषापगतोरुरूपम् । नमामि नारायणमप्रतीपं सदा प्रियेभ्यः परमादरेण ॥ १॥ ॥ श्रीसदाचारस्मृतिः ॥ आदि यस्मिन्सर्वाणिकर्माणि संन्यस्याध्यात्म चेतसा । निराशी निर्ममो याति परं जयति सोऽच्युत ॥ १॥ अंत्य अशेषकल्याण गुणनित्यानुभवसत्तनुः । अशेषदोषरहितः प्रियतां पुरुषोत्तमः ॥ १॥ ॥ श्रीभागवततात्पर्यनिर्णयः ॥ आदि सृष्टिस्थित्यप्येहानियतिदृशितमोबंधमोक्षाश्च । यस्मादस्य श्रीब्रह्मरुद्रप्रभृति सुरनरव्यद्यीशशक्त्रवात्मकस्य । विष्णोर्व्यस्तास्समस्तास्सकलगुणनिधिसर्वदोषव्यपेतः । पूर्णनंदोऽव्ययो यो गुरुरपि परमंश्चितयेत्तं महांतम् ॥ १॥ अंत्य नित्यादोषस्वरूपाय गुणपूर्णायसर्वदा । नारायणाय हरये नमः प्रेष्ठतमाय मे ॥ १॥ ॥ श्रीभारततात्पर्यनिर्णयः ॥ आदि नारायणाय परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोन्नियति प्रदाय । ज्ञानप्रदाय विबुधासुर सौख्यदुःख सत्कारणय वितताय नमो नमस्ते ॥ १॥ आसीदुदारगुणवारिधिरप्रमेयो नारायणः परतमः परमात्स एकः । संशांतसंविदखिलं जठरे निधाय लक्ष्मीभुजांतरगतस्स्वरोतोऽपिचाग्रे ॥ २॥ अंत्य तस्मादयं ग्रंथवरोऽखिलोरुधर्मादिमोक्षांतपुमर्थहेतुः । किञ्चोदितैस्तस्यगुणैस्तदोन्यैर्नारायणः प्रीतिमुपैत्यतोलम् ॥ १॥ यस्सर्वगुणसम्पूर्णस्सर्वदोषविवर्जितः । प्रियतां प्रीत एवालं विष्णुर्मे परमस्सुहृत् ॥ २॥ ॥ श्रीयतिप्रणवकल्प ॥ आदि नत्वा नारायणं वन्दे पूर्णं ब्रह्महरार्चितम् । यतेराचरणं वक्ष्ये पूर्णशास्त्रनुसारतः ॥ १॥ समिच्चर्वादिकान्हुत्व सम्यक्पुरुषसूक्ततः । सर्वेशामभयं दत्वा विरक्तः प्रव्रजेद्धरिम् ॥ २॥ अंत्य ध्येयो नारायणो नित्यं सृष्टिस्थित्यंतकारकः । भक्तानां मुक्तिदो नित्यामधमाज्ञानिनां तमः ॥ १॥ तदर्थान् ब्रह्मसूत्रेण सम्यङ्ग्निर्णय तत्त्वतः । विष्णोस्सर्वोत्तमत्वं हि सर्वदा प्रतिपादय ॥ २॥ ॥ श्रीजयंतीनिर्णय ॥ आदि रोहिण्यामर्धरात्रे तु यदा कृष्णाष्टमि भवेत् । जयंतीनाम सा प्रोक्ता सर्वपापप्रणाशिनि ॥ १॥ प्रभातकाले मेधावी योगायेती यथाविधि । नित्यान्हीकं प्रकुर्वीत भगवंतमनुस्मरन् । विश्वायेति च मंत्रेण ततः स्वापं समाचरेत् ॥ २॥ अंत्य सर्वायेति च मन्त्रेण ततः पारणमाचरेत् । धर्मायेति ततः स्वस्थो मुच्यते सर्वकिल्बिषैः ॥ १॥ ॥ श्रीकृष्णस्तुतिः ॥ अंबरगङ्गाचुंबितपादः पदतलविगलितगुरुतरशकटः । काळियनागक्ष्वेलन हंता सरसिजनवदल्विकसितनयनः । कालघनालिकुर्बुरकायः शरशतशकलित सुररिपुनिवहः । संततमस्मान्पातु मुरारिः सततगसमजवखगपतिनिरतः । ॥ भारतीरमणमुख्यप्राणांतर्गत श्रीकृष्णर्पणमस्तु ॥