अक्षर आकार:

श्रीयुगलकिशोराष्टकम्

Shri Yugalakishorashtakam

श्रीयुगलकिशोराष्टकम्

श्रीमद्रूपगोस्वामिविरचितम् । नवजलधरविद्युद्योतवर्णौ प्रसन्नौ वदननयनपद्मौ चारुचन्द्रावतंसौ । अलकतिलकफालौ केशवेशप्रफुल्लौ भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ १॥ वसनहरितनीलौ चन्दनालेपनाङ्गौ मणिमरकतदीप्तौ स्वर्णमालाप्रयुक्तौ । कनकवलयहस्तौ रासनाट्यप्रसक्तौ भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ २॥ अतिमतिहरवेशौ रङ्गभङ्गीत्रिभङ्गौ मधुरमृदुलहास्यौ कुण्डलाकीर्णकर्णौ । नटवरवररम्यौ नृत्यगीतानुरक्तौ भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ ३॥ विविधगुणविदग्धौ वन्दनीयौ सुवेशौ मणिमयमकराद्यैः शोभिताङ्गौ स्फुरन्तौ । स्मितनमितकटाक्षौ धर्मकर्मप्रदत्तौ भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ ४॥ कनकमुकुटचूडौ पुष्पितोद्भूषिताङ्गौ सकलवननिविष्टौ सुन्दरानन्दपुञ्जौ । चरणकमलदिव्यौ देवदेवादिसेव्यौ भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ ५॥ अतिसुवलितगात्रौ गन्धमाल्यैर्विराजौ कति कति रमणीनां सेव्यमानौ सुवेशौ । मुनिसुरगणभाव्यौ वेदशास्त्रादिविज्ञौ भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ ६॥ अतिसुमधुरमूर्तौ दुष्टदर्पप्रशान्तौ सुखरसवरदौ द्वौ सर्वसिद्धिप्रदानौ । अतिरसवशमग्नौ गीतवाद्यैर्वितानौ भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ ७॥ अगमनिगमसारौ सृष्टिसंहारकारौ वयसि नवकिशोरौ नित्यवृन्दावनस्थौ । शमनभयविनाशौ पापिनस्तारयन्तौ भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ ८॥ इदं मनोहरं स्तोत्रं श्रद्धया यः पठेन्नरः । राधिकाकृष्णचन्द्रौ च सिद्धिदौ नात्र संशयः ॥ ९॥ इति श्रीमद्रूपगोस्वामिविरचितं श्रीयुगलकिशोराष्टकं सम्पूर्णम् ।