अक्षर आकार:

विवेकधैर्याश्रयः

vivekadhairyAshrayaH

विवेकधैर्याश्रयः

विवेकधैर्ये सततं रक्षणीये तथाश्रयः । विवेकस्तु हरिः सर्वं निजेच्छातः करिष्यति ॥ १॥ प्रार्थिते वा ततः किं स्यात् स्वाम्यभिप्रायसंशयात् । सर्वत्र तस्य सर्वं हि सर्वसामर्थ्यमेव च ॥ २॥ अभिमानश्च सन्त्याज्यः स्वाम्यधीनत्वभावनात् । विशेषतश्चेदाज्ञा स्यादन्तःकरणगोचरः ॥ ३॥ तदा विशेषगत्यादि भाव्यं भिन्नं तु दैहिकात् । आपद्गत्यादिकार्येषु हठस्त्याज्यश्च सर्वथा ॥ ४॥ अनाग्रहश्च सर्वत्र धर्माधर्माग्रदर्शनम् । विवेकोऽन्यं समाख्यातो धैर्यं तु विनिरूप्यते ॥ ५॥ त्रिदुःखसहनं धैर्यमामृतेः सर्वतः सदा । तक्रवद्देहवद्भाव्यं जडवद्गोपभार्यवत् ॥ ६॥ प्रतीकारो यदृच्छातः सिद्धश्चेन्नाग्रही भवेत् । भार्यादीनां तथान्येषामसतश्चाक्रमं सहेत् ॥ ७॥ स्वयमिन्द्रियकार्याणि कायवाङ्मनसा त्यजेत् । अशूरेणापि कर्तव्यं स्वस्यासामर्थ्यभावनात् ॥ ८॥ अशक्ये हरिरेवास्ति सर्वमाश्रयतो भवेत् । एतत्सहनमत्रोक्तमाश्रयोऽतो निरूप्यते ॥ ९॥ ऐहिके पारलोके च सर्वथा शरणं हरिः । दुःखहानौ तथा पापे भये कामाद्यपूरणे ॥ १०॥ भक्तद्रोहे भक्त्यभावे भक्तेश्चातिक्रमे कृते । अशक्ये वा सुशक्ये वा सर्वथा शरणं हरिः ॥ ११॥ अहङ्कारकृते चैव पोष्यपोषणरक्षणे । पोष्यातिक्रमणे चैव तथान्तेवास्यतिक्रमे ॥ १२॥ अलौकिकमनःसिद्धौ सर्वार्था शरणं हरिः । एवं चित्ते सदा भाव्यं वाचा च परिकीर्तयेत् ॥ १३॥ अन्यस्य भजनं तत्र स्वतो गमनमेव च । प्रार्थना कार्यमात्रेऽपि ततोऽन्यत्र विवर्जयेत् ॥ १४॥ अविश्वासो न कर्तव्यः सर्वथा बाधकस्तु सः । ब्रह्मास्त्रचातकौ भाव्यौ प्राप्तं सेवेत निर्ममः ॥ १५॥ यथाकथञ्चित्कार्याणि कुर्यादुच्चावचान्यपि । किं वा प्रोक्तेन बहुना शरणं भावयेद्धरिम् ॥ १६॥ एवमाश्रयणं प्रोक्तं सर्वेषां सर्वदा हितम् । कलौ भक्त्यादिमार्गा हि दुःसाध्या इति मे मतिः ॥ १७॥ इति श्रीवल्लभाचार्यविरचितो विवेकधैर्याश्रयः समाप्तः ।