अक्षर आकार:

श्रीविष्णोः प्रातःस्मरणम्

Vishnu Pratah-smarana

श्रीविष्णोः प्रातःस्मरणम्

प्रातः स्मरामि भवभीतिमहार्तिशान्त्यै नारायणं गरुडवाहनमब्जनाभम् । ग्राहाभिभूतवरवारणमुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥ १॥ प्रातर्नमामि मनसा वचसा च मूर्ध्ना पादारविन्दयुगलं परमस्य पुंसः । नारायणस्य नरकार्णवतारणस्य पारायणप्रवणविप्रपरायणस्य ॥ २॥ प्रातर्भजामि भजतामभयङ्करं तं प्राक्सर्वजन्मकृतपापभयापहत्यै । यो ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोर- शोकप्रणाशनकरो धृतशङ्खचक्रः ॥ ३॥ ॥ इति श्रीविष्णोः प्रातःस्मरणम् ॥