अक्षर आकार:

श्रीविष्णु पञ्चायुधस्तोत्रम्

shrI viShNu pa~nchAyudha stotram

श्रीविष्णु पञ्चायुधस्तोत्रम्

स्फुरत्सहस्रारशिखातितीव्रं सुदर्शनं भास्करकोटितुल्यम् । सुरद्विषां प्राणविनाशविष्णोश्चक्रं सदाऽहं शरणं प्रपद्ये । १ विष्णोर्मुखोत्थानिलपूरितस्य यस्य ध्वनिर्दानवदर्पहन्ता । तं पाञ्चजन्यं शशिकोटिशुभ्रं शङ्खं सदाऽहं शरणं प्रपद्ये । २ हिरण्मयीं मेरुसमानसारं कौमोदकीं दैत्यकुलैकहन्त्रीं । वैकुण्ठनामाग्रकराभिमृष्टां गदां सदाऽहं शरणं प्रपद्ये । ३ रक्षोऽसुराणां कठिनोग्रकण्ठ च्छेदक्षरच्छोणितदिग्धधाराम् । तं नन्दकं नाम हरेः प्रदीप्तं खड्गं सदाऽहं शरणं प्रपद्ये । ४ यज्ज्यानिनादश्वरणा त्सुराणां चेतांसि निर्मुक्तभयानि सद्यः । भवन्ति दैत्याशनिबाणवल्लिः शार्ङ्ग सदाऽहं शरणं प्रपद्ये । ५ इमं हरेः पञ्चमहायुधानां स्तवं पठेद्योऽनुदिनं प्रभाते । var पठेद्योसुदिनं समस्तदुःखानि भयानि तस्य पापानि नश्यन्ति सुखानि सन्ति । ६ वनेरणे शत्रुजलाग्निमध्ये यदृच्छयापत्सु महाभयेषु । इमं पठन् स्तोत्रमनाकुलात्मा सुखी भवेत्तत्कृतसर्वरक्षः । ७ सचक्रशङ्खं गदाखड्गशार्थौलणणं पीताम्बरं कौस्तुभवत्सलाञ्छितम् । श्रिया समेतोज्ज्वल शोभिताङ्गं विष्णुं सदाऽहं शरणं प्रपद्ये । जलेरक्षतु वाराहः स्थलेरक्षतु वामनः । अटव्यां नारसिंहश्च सर्वतः पातु केशवः । इति श्री विष्णु पञ्चायुध स्तोत्रम् ।