अक्षर आकार:

श्रीविष्णुभुजङ्गप्रयातस्तोत्रम्

Shri Vishnu Bhujangaprayata Stotra

श्रीविष्णुभुजङ्गप्रयातस्तोत्रम्

चिदंशं विभुं निर्मलं निर्विकल्पं निरीहं निराकारमोङ्कारगम्यम् । गुणातीतमव्यक्तमेकं तुरीयं परं ब्रह्म यं वेद तस्मै नमस्ते ॥ १॥ विशुद्धं शिवं शान्तमाद्यन्तशून्यं जगज्जीवनं ज्योतिरानन्दरूपम् । अदिग्देशकालव्यवच्छेदनीयं त्रयी वक्ति यं वेद तस्मै नमस्ते ॥ २॥ महायोगपीठे परिभ्राजमाने धरण्यादितत्त्वात्मके शक्तियुक्ते । गुणाहस्करे वह्निबिम्बार्धमध्ये समासीनमोङ्कर्णिकेऽष्टाक्षराब्जे ॥ ३॥ समानोदितानेकसूर्येन्दुलोटि- प्रभापूरतुल्यद्युतिं दुर्निरीक्षम् । न शीतं न चोष्णं सुवर्णावदात- प्रसन्नं सदानन्दसंवित्स्वरूपम् ॥ ४॥ सुनासापुटं सुन्दरभ्रूललाटं किरीटोचिताकुञ्चितस्निग्धकेशम् । स्फुरत्पुण्डरीकाभिरामायताक्षं समुत्फुल्लरत्नप्रसूनावतंसम् ॥ ५॥ लसत्कुण्डलामृष्टगण्डस्थलान्तं जपारागचोराधरं चारुहासम् । अलिव्याकुलामोलिमन्दारमालं महोरस्फुरत्कौस्तुभोदारहारम् ॥ ६॥ सुरत्नाङ्गदैरन्वितं बाहुदण्डै- श्चतुर्भिश्चलत्कङ्कणालंकृताग्रैः । उदारोदरालंकृतं पीतवस्त्रं पदद्वन्द्वनिर्धूतपद्माभिरामम् ॥ ७॥ स्वभक्तेषु सन्दर्शिताकारमेवं सदा भावयन्संनिरुद्धेन्द्रियाश्वः । दुरापं नरो याति संसारपारं परस्मै परेभ्योऽपि तस्मै नमस्ते ॥ ८॥ श्रिया शातकुम्भद्युतिस्निग्धकान्त्या धरण्या च दूर्वादलश्यामलाङ्ग्या । कलत्रद्वयेनामुना तोषिताय त्रिलोकीगृहस्थाय विष्णो नमस्ते ॥ ९॥ शरीरं कलत्रं सुतं बन्धुवर्गं वयस्यं धनं सद्म भृत्यं भुवं च । समस्तं परित्यज्य हा कष्टमेको गमिष्यामि दुःखेन दूरं किलाहम् ॥ १०॥ जरेयं पिशाचीव हा जीवतो मे वसामक्ति रक्तं च मांसं बलं च । अहो देव सीदामि दीनानुकम्पि- न्किमद्यापि हन्त त्वयोदासितव्यम् ॥ ११॥ कफव्याहतोष्णोल्बणश्वासवेग- व्यथाविस्फुरत्सर्वमर्मास्थिबन्धाम् । विचिन्त्याहमन्त्यामसङ्ख्यामवस्थां बिभेमि प्रभो किं करोमि प्रसीद ॥ १२॥ लपन्नच्युतानन्त गोविन्द विष्णो मुरारे हरे नाथ नारायणेति । यथानुस्मरिष्यामि भक्त्या भवन्तं तथा मे दयाशील देव प्रसीद ॥ १३॥ भुजङ्गप्रयातं पठेद्यस्तु भक्त्या समाधाय चित्ते भवन्तं मुरारे । स मोहं विहायाशु युष्मत्प्रसादा- त्समाश्रित्य योगं व्रजत्यच्युतं त्वाम् ॥ १४॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीविष्णुभुजङ्गप्रयातस्तोत्रं सम्पूर्णम् ॥