अक्षर आकार:

श्रीविष्णुस्तवराजः

shrIviShNustavarAjaH

श्रीविष्णुस्तवराजः

श्री गणेशाय नमः । पद्मोवाच । योगेन सिद्धविबुधैः परिभाव्यमानं लक्ष्म्यालयं तुलसिकाचितभक्तभृङ्गम् । प्रोत्तुङ्गरक्तनखराङ्गुलिपत्रचित्रं गङ्गारसं हरिपदाम्बुजमाश्रयेऽहम् ॥ १॥ गुम्फन्मणिप्रचयघट्टितराजहंससिञ्जत्सुनूपुरयुतं पदपद्मवृन्दम् । पीताम्बराञ्चलविलोलचलत्पताकं स्वर्णत्रिवक्रवलयं च हरेः स्मरामि ॥ २॥ जंघे सुर्पणगलनीलमणिप्रवृद्धशोभास्पदारुणमणिद्युतिचञ्चुमध्ये । आरक्तपादतललम्बनशोभमाने लोकेक्षणोत्सवकरे च हरेः स्मरामि ॥ ३॥ ते जानुनी मखपतेर्भुजमूलसङ्गरङ्गोत्सवावृततडिद्वसने विचित्रे । चञ्चत्पतत्रिमुखनिर्गतसामगीतविस्तारितात्मयशसी च हरेः स्मरामि ॥ ४॥ विष्णोः कटिं विधिकृतान्तमनोजभूमिं जीवाण्डकोशगणसङ्गदुकूलमध्याम् । नानागुणप्रकृतिपीतविचित्रवस्त्रां ध्याये निबद्धवसनां खगपृष्ठसंस्थाम् ॥ ५॥ शान्तोदरं भगवतस्त्रिवलिप्रकाशमावर्तनाभिविकसद्विधिजन्मपद्मम् । नाडीनदीगणरसोत्थसितान्त्रसिन्धुं ध्यायेऽण्डकोशनिलयं तनुलोमरेखम् ॥ ६॥ वक्षः पयोधितनयाकुचकुङ्कुमेन हारेण कौस्तुभमणिप्रभया विभातम् । श्रीवत्सलक्ष्म हरिचन्दनजप्रसूनमालोचितं भगवतः सुभगं स्मरामि ॥ ७॥ बाहू सुवेषसदनौ वलयाङ्गदादिशोभास्पदौ दुरितदैत्यविनाशदक्षौ । तौ दक्षिणौ भगवतश्च गदासुनाभतेजोर्जितौ सुललितौ मनसा स्मरामि ॥ ८॥ वामौ भुजौ मुररिपोर्धृतपद्मशङ्खौ श्यामौ करीन्द्रकरवन्मणिभूषणाढ्यौ । रक्ताङ्गुलिप्रचयचुम्बितजानुमध्यौ पद्मालयाप्रियकरौ रुचिरौ स्मरामि ॥ ९॥ कण्ठं मृणालममलं मुखपङ्कजस्य लेखात्रयेण वनमालिकया निवीतम् । किंवा विमुक्तिवशमन्त्रकसत्फलस्य वृन्तं चिरं भगवतः सुभगं स्मरामि ॥ १०॥ वक्त्राम्बुजं दशनहासविकासरम्यं रक्ताधरौष्ठवरकोमलवाक्सुधाढ्यम । सन्मानसोद्भवचलेक्षणपत्रचित्रं लोकाभिरामममलं च हरेः स्मरामि ॥ ११॥ सूरात्मजावसथगन्धमिदं सुनासं भ्रूपल्लवं स्थितिलयोदयकर्मदक्षम् । कामोत्सवं च कमलाहृदयप्रकाशं सञ्चिन्तयामि हरिवक्त्रविलासदक्षम् ॥ १२॥ कर्णौ लसन्मकरकुण्डलगन्धलोलौ नानादिशां च नभसश्च विकासगेहम् । लोलालकप्रचयचुम्बनकुञ्चिताग्रौ लग्नौ हरेर्मणिकिरीटतटे स्मरामि ॥ १३॥ भालं विचित्रतिलकं प्रियचारुगन्धगोरोचनारचनया ललनाक्षिसख्यम् । ब्रह्मैकधाममणिकान्तकिरीटजुष्टं ध्याये मनोनयनहारकमीश्वरस्य ॥ १४॥ श्रीवासुदेवचिकुरं कुटिलं निबद्धं नानासुगन्धिकुसुमैः स्वजनादरेण । दीर्घं रमाहृदयगाशमनं धुनन्तं ध्यायेऽम्बुवाहरुचिरं हृदयाब्जमध्ये ॥ १५॥ मेघाकारं सोमसूर्यप्रकाशं सुभ्रून्नासं शक्रचापैकमानम् । लोकातीतं पुण्डरीकायताक्षं विद्युच्चैलं चाश्रयेऽहं त्वपूर्वम् ॥ १६॥ दीनं हीनं सेवया दैवगत्या पापैस्तापैः पूरितं मे शरीरम् । लोभाक्रान्तं शोकमोहादिविद्धं कृपादृष्ट्या पाहि मां वासुदेव ॥ १७॥ ये भक्त्याऽद्यां ध्यायमानां मनोज्ञां व्यक्तिं विष्णोः षोडशश्लोकपुष्पैः । स्तुत्वा नत्वा पूजयित्वा विधिज्ञाः शुद्धा मुक्ता ब्रह्मसौख्यं प्रयान्ति ॥ १८॥ पद्मेरितमिदं पुण्यं शिवेन परिभाषितम् । धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं परम् ॥ १९॥ पठन्ति ये महाभागास्ते मुच्यन्तेऽहसोऽखिलात् । धर्मार्थकाममोक्षाणां परत्रेह फलप्रदम् ॥ २०॥ । इति श्रीकल्किपुराणेऽनुभागवते भविष्ये पद्माप्रोक्तो विष्णुस्तवराजः सम्पूर्णम्।