अक्षर आकार:

श्रीविष्णोरष्टनामस्तोत्रम्

shrIviShNoraShTanAmastotram

श्रीविष्णोरष्टनामस्तोत्रम्

श्री गणेशाय नमः । अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम् । हंसं नारायणं चैवमेतन्नामाष्टकं पठेत् ॥ १॥ त्रिसंध्यं यः पठेन्नित्यं दारिद्र्यं तस्य नश्यति । शत्रुसैन्यं क्षयं याति दुःस्वप्नः सुखदो भवेत् ॥ २॥ गङ्गायां मरणं चैव दृढा भक्तिस्तु केशवे । ब्रह्मविद्याप्रबोधश्च तस्मान्नित्यं पठेन्नरः ॥ ३॥ । इति श्रीवामनपुराणे श्रीविष्णोर्नामाष्टकस्तोत्रं सम्पूर्णम् ।