अक्षर आकार:

श्रीविष्णोः षोडशनामस्तोत्रम्

shrIviShNoH ShoDashanAmastotram

श्रीविष्णोः षोडशनामस्तोत्रम्

औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम् । शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥ १॥ युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् । नारायणं तनुत्यागे श्रीधरं प्रियसंगमे ॥ २॥ दुःस्वप्ने स्मर गोविंदं संकटे मधुसूदनम् । कानने नारसिंहं च पावके जलशायिनम् ॥ ३॥ जलमध्ये वराहं च पर्वते रघुनन्दनम् । गमने वामनं चैव सर्वकार्येषु माधवम् ॥ ४॥ षोडशैतानि नामानि प्रातरूत्थाय यः पठेत् । सर्वपापविर्निमुक्तो विष्णुलोके महीयते ॥ ५॥ । इति श्रीविष्णोः षोडशनामस्तोत्रं सम्पूर्णम् ।