अक्षर आकार:

श्रीकृष्णस्तोत्रं विप्रपत्नीकृतम्

viprapatnIkRitaM shrIkRiShNastotram

श्रीकृष्णस्तोत्रं विप्रपत्नीकृतम्

श्रीगणेशाय नमः । विप्रपत्न्य ऊचुः । त्वं ब्रह्म परमं धाम निरीहो निरहङ्कृतिः । निर्गुणश्च निराकारः साकारः सगुणः स्वयम् ॥ १॥ साक्षिरूपश्च निर्लिप्तः परमात्मा निराकृतिः । प्रकृतिः पुरुषस्त्वं च कारणं च तयोः परम् ॥ २॥ सृष्टिस्थित्यन्तविषये ये च देवास्त्रयः स्मृताः । ते त्वदंशाः सर्वबीजा ब्रह्मविष्णुमहेश्वराः ॥ ३॥ यस्य लोम्नां च विवरे चाऽखिलं विश्वमीश्वरः । महाविराङ्महाविष्णुस्त्वं तस्य जनको विभो ॥ ४॥ तेजस्त्वं चाऽपि तेजस्वी ज्ञानं ज्ञानी च तत्परः । वेदेऽनिर्वचनीयस्त्वं कस्त्वां स्तोतुमिहेश्वरः ॥ ५॥ महदादि सृष्टिसूत्रं पञ्चतन्मात्रमेव च । बीजं त्वं सर्वशक्तीनां सर्वशक्तिस्वरूपकः ॥ ६॥ सर्वशक्तीश्वरः सर्वः सर्वशक्त्याश्रयः सदा । त्वमनीहः स्वयञ्ज्योतिः सर्वानन्दः सनातनः ॥ ७॥ अहोऽप्याकारहीनस्त्वं सर्वविग्रहवानपि । सर्वेन्द्रियाणां विषयं जानासि नेन्द्रियी भवान् ॥ ८॥ सरस्वती जडीभूता यत्स्तोत्रे यन्निरूपणे । जडीभूतो महेशश्च शेषो धर्मो विधिः स्वयम् ॥ ९॥ पार्वती कमला राधा सावित्री देवसूरपि । वेदश्च जडतां याति के वा शक्ता विपश्चितः ॥ १०॥ वयं किं स्तवनं कूर्मः स्त्रियः प्राणेश्वरेश्वर । प्रसन्नो भव नो देव दीनबन्धो कृपां कुरु ॥ ११॥ इति पेतुश्च ता विप्रपत्न्यस्तच्चरणाम्बुजे । अभयं प्रददौ ताभ्यः प्रसन्नवदनेक्षणः ॥ १२॥ विप्रपत्नीकृतं स्तोत्रं पूजाकाले च यः पठेत् । स गतिं विप्रपत्नीनां लभते नाऽत्र संशयः ॥ १३॥ ॥ इति श्रीब्रह्मवैवर्ते विप्रपत्नीकृतं श्रीकृष्णस्तोत्रं समाप्तम् ॥