अक्षर आकार:

विठ्ठलेशस्तवः

viThThaleshastavaH

विठ्ठलेशस्तवः

न मन्त्रे न तन्त्रे न च ज्ञानसिद्धी- न वैकुण्ठबुद्धिस्तु वैकुण्ठलोके । गतिर्विठ्ठलेशे रतिर्विठ्ठलेशे मतिर्विठ्ठलेशे सदा वै ममास्तु ॥ १॥ पदाम्भोरुहाम्भोविभिन्नार्तितापे कृपादृक् स्वकैतादृशोदारशीले । गतिर्विठ्ठलेशे रतिर्विठ्ठलेशे मतिर्विठ्ठलेशे सदा वै ममास्तु ॥ २॥ न नाके वराके न राकेशयाने पिनाकेशलोके न वा केलिरम्ये । गतिर्विठ्ठलेशे रतिर्विठ्ठलेशे मतिर्विठ्ठलेशे सदा वै ममास्तु ॥ ३॥ यदालोकतस्तोकतोऽपि क्षणेन प्रमुक्तो भवेल्लोकतः शोकतोऽयम् । गतिर्विठ्ठलेशे रतिर्विठ्ठलेशे मतिर्विठ्ठलेशे सदा वै ममास्तु ॥ ४॥ स्मृतिर्वा मतिर्वा कदा वा यदा वा यथा वा तथा स्यात्पदार्थाः कियन्तः । गतिर्विठ्ठलेशे रतिर्विठ्ठलेशे मतिर्विठ्ठलेशे सदा वै ममास्तु ॥ ५॥ महामोहदग्धोऽपि कालाग्निदग्धो विदग्धा भवेत्स्नेहदृष्ट्याऽपि यस्य । गतिर्विठ्ठलेशे रतिर्विदुलेशे मतिर्विठ्ठलेशे सदा वै ममास्तु ॥ ६॥ यदङ्गीकृतं जीवमङ्गीकरोति त्रिभङ्गी स्वयं वेणुरङ्गी प्रभुर्यत् । गतिर्विठ्ठलेशे रतिर्विठ्ठलेशे मतिर्विठ्ठलेशे सदा वै ममास्तु ॥ ७॥ शरण्योऽतिधन्यो धरण्यां वरेण्यो वरीवर्ति गण्यो यदन्यो न कोऽपि । गतिर्विठ्ठलेशे रतिर्विठ्ठलेशे मतिर्विठ्ठलेशे सदा वै ममास्तु ॥ ८॥ सदानन्दरूपः सदानन्दरूपा- त्मनाऽऽनन्दलीलारसं यो ददाति । गतिर्विठ्ठलेशे रतिर्विठ्ठलेशे मतिर्विठ्ठलेशे सदा वै ममास्तु ॥ ९॥ न भक्तिर्न मुक्तिर्न वै सर्वशक्ति- र्विरक्तिर्न युक्तिस्ततो भक्तिरुक्ता । गतिर्विठ्ठलेशे रतिर्विठ्ठलेशे मतिर्विठ्ठलेशे सदा वै ममास्तु ॥ १०॥ इति श्रीरघुनाथजीकृतो विठ्ठलेशस्तवः समाप्तः ।